________________
( १९८)
अनेकार्थसंग्रहः सटोकः
काय: कदैवते मूर्ती, सङ्चे लक्ष्यस्वभावयोः । कायं मनुष्यतीर्थे च काव्या स्यात्पूतनाधियोः || ३४२॥ काव्यं ग्रन्थे काव्यः शुक्रे, कांस्यं तैजसवाद्ययोः । पानपात्रे मानभेदे क्रियाकरणचेष्टयोः || ३४३ ॥
"
प्रवृत्तिकारणम् । प्रयोजनं प्रवृत्तिसाध्यं फलम् । द्वयोर्यथात्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरुयोगिनामपि || ३४१ || कायः कदैवते मूर्ती सङ्घ लक्ष्यस्वभावयोः । को ब्रह्मा देवताऽस्य कायः । कः सोमाट्ट्यण् ६-२- १०७ चीयते वा चिति देहो वा सोपसमाधाने कश्वादेरिति धन्न । केनाद्यते ( प्र० नाट्यते) वा कदैवते वाच्यलिङ्गः । तत्र यथा - कायं हविर्निर्वपतीह यज्ञा | मूर्ती देहे यथा - काय ः सन्निहितोपायः । सङ्घे यथाजयाय केषां न सहायकायः । कायं मनुष्यतीर्थे च । मूलेऽङ्गष्ठस्य स्याद्ब्रह्म तीर्थं कायं कनिष्ठयोः । काव्या स्यात् पूतनाधियोः । कूयते काव्या । शिक्यास्या ( उ० ३६४ ) इति साधुः पूतना राक्षसीविशेषः । धीर्बुद्धिः । द्वयोर्यथा - वासुदेव इव क्षतकाव्यादरः ।। ३४२।। काव्यं ग्रन्थे काव्यः शुक्रे । कवेर्भावः कर्म वा काव्यम् । राजादित्वाद्यण् । कवेरपत्यं काव्यः । कुवादेः । ६-१-१०० द्वयोर्यथा सर्वथा सुरसम्बद्धं काव्यं यो नाभिनन्दति । कांस्यं तैजसवाद्ययोः । पानपात्रे मानभेदे । कंसापेदं कंसीयम् । परिणामिनि तदर्थे ७-१-४४ इति ईयः । कंसीयस्य विकारः कांस्यम् । कंसीयाज्ञ्यः ६-१-४१ इति यो यलुक् च । तैजसवाद्ययोर्यथा श्रुतिपथगतेन सत्यं कांस्यं ध्वनिनेव सुजनचरितेन । पानपात्रे मानभेदे च यथा - कांस्यैर्धृतं दास्यति दास्यसौ ते । क्रिया करणचेष्टयोः । जर्मोपाय चिकित्सासु
-
-