________________
द्वितीय काण्डः rammarrrrrrrrrammwarranmmmmmmmmmmmm
कक्ष्या गृहप्रकोष्ठे स्यात्सादृश्योद्योगकाञ्चिषु । बृहतिकेभ्यनाड्योश्च, कार्यः हेतौ प्रयोजने ॥३४१॥
क्षयणं क्षीयतेऽनेन वा। मृत्यवेपि मंखः । तत्र गेहे च यथापायात्स स्वयमन्धकक्षयकरस्त्वा सर्वदो माधवः । कल्पान्ते यथाक्षयकालनिराकुल: क्षती। अपचये रुजि च यथा-अयथाबलमारम्भो निदानं क्षयसंपदः । कन्या नाल् कुमार्यां च राश्योषधिविशेषयोः। कनति दीव्यते कन्या। स्थाच्छा (उ० ३५७) इति यः। नार्यां यथा-विदेहकन्याकुचकुम्भकोटिकठोरतासाक्षिणिसायको यः। कुमार्यां यथा-सकृत्कन्याः प्रदीयन्ते। राशिविशेषे यथाकन्यागत इति सविता नहि दुष्यति वचनमात्रेण । ओषधिविशेषः कुमारीनाम ॥३४०।। कक्ष्या गृहप्रकोष्ठे स्यात्सादृश्यो(सदृशो) द्योगकाञ्चिषु। बृहतिकेभनाइयोश्च । शिक्यास्याढ्य (उ० ३६४) इति साधुः। कक्षायां भवा वा दिगादित्वाद् यः । गृहप्रकोष्ठे गृहमध्यप्रदेशे यथा-कक्ष्यान्तराण्यद्रिपते विवेश । सादृश्ये यथा-अम्भोजकक्ष्यामवगाहते. मुखम् । उद्योगे उद्यमे यथापरार्थबद्धकक्ष्याणां त्वादशामुद्भवः कुतः। काञ्च्यां स्त्रीणां मेखलायां यथा-कक्ष्यावबद्धसिचया किमियं न शेते। उपलक्षणात् पुंसां सा रसनेऽपि । यथा-परिधानाद् बहिः कक्ष्यानिबद्धा ह्यासुरी भवेत् । बृहतिकायां यथा-कक्ष्यापटस्तुहिनपक्षविपक्षभूतः । इभनाड्यां यथा-युधि परैः सहदृढबद्धकक्ष्यया कलत्कणन्मधुपकुलोपगीतया । अदीयत द्विपघटया सवारिभिः । अकरोदरः स्वयमथ दानमक्षयम् । स्पर्धा प्रतिज्ञातुलास्वपि मंखः । स्पर्धाप्रतिज्ञयोर्यथा-सतुल्यकक्ष्यो रिपुणा धनंजयः । तुलायां यथा-वणिजः कृपणः कोऽन्यः कक्ष्याप्रग्राहचारिणः। कार्ग हेतौ प्रयोजने । क्रियते कार्यम् । हेतुः