________________
अनेकार्थसंग्रहः सटीकः
हिमं तुषारे शीते च, हिमवन्दनपादपे ।
होमिः सर्पिषि वह्नौ च स्यादर्व्यः स्वामिवैश्ययोः ।। ३३५ ।। अर्थ्य * शिलाजतुन्यर्थशालिनि न्यायविज्ञयोः । अन्योऽसदृशेत रयोरन्त्यस्त्वन्तभवेऽधमे ||३३६ ।।
( १९४)
ऽष्टौ प्रकीर्तिताः । सलिलं जलम् । वानरः कपिः । किन्नरेश्वरो धनदः ।। ३३४ । । हिमं तुषारे शीते च । हिनोति हिमम् । क्षुहिभ्यां वा ( उ० ३४१ ) इति कित् म: । तुषारे पुंक्लीबः । शीते वाच्यलिङ्गः । तुषारे यथा - मार्गे शिलीभूतहिमेऽपि यत्र । शीते यथा - हिमांशुमाशु ग्रसते । हिमश्चन्दनपादपे । यथा - मलय एष हिमद्रुममुद्रितः । होमिः सर्पिषि वह्नौ च । हूयते होमि: । नीसा ( उ० ६८७ ) इति बहुवचनात् मिः । स्त्रियाम् द्वयोर्यथा - जुहोमि होमी स्वयमद्य होमिम् । अथ यान्ताः । स्यादर्य्यः स्वामिवैश्ययोः । अर्यतेऽर्य्यः । स्वामिवैश्येऽर्थः । ५ - १-३३ इति साधुः । द्वयोर्यथा-ब्रह्मक्षत्रार्य्यशूद्राणामर्यं प्रासूत नन्दनम् ||३३५|| अर्थ्य शिलाजतुन्यर्थशालिनि न्यायविज्ञयोः । अर्थ्यतेऽर्थ्यम् अर्थे साधु वा । तत्र साधौ ७ - १ - १५ इति यः । अर्थादनपेतं वा । न्यायादर्थादनपेते ७-१-१३ इति यः । शिलाजतुनि कलेबेऽन्यत्र वाच्यलिङ्गः । शिलाजतु धातुभेदः । अर्थशालिनि न्याय्ये च यथावागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे । विज्ञे विपचिति यथा - अर्थ्यानामर्थिकां वाचं वदन्त्यापद्गताऽपि भुवि । अन्योऽसदृशेतरयोः । अनिति अन्यः । स्थाछामा ( उ० ३५७ ) इति यः । वाच्यलिङ्गः । असदृशेऽसाधारणे यथा - तन्वङ्ग्यास्तरुणिम्नि सर्पति बलादन्येव काचिद्गतिः । इतरस्मिन् यथा - अन्यापि किं सखि न भाजनमादृशानां वैरी भवेत् । यदि न वेपथुरन्तरायः ।
*संप्रार्थ्य