________________
द्वितोय: काण्ड:
सीमाघाटे स्थितौ क्षेत्रे, सूक्ष्मोऽणौ सूक्ष्ममल्पके । अध्यात्मे कतके सोमस्त्वौषधी तद्रसेन्दुषु ॥ ३३३॥ दिव्यौषध्यां घनसारे समोरे पितृदैवते । वसुप्रभेदे सलिले, वानरे किन्नरेश्वरे || ३३४ ||
( १९३)
च वेति म: ( उ० ३४३) आघाटे अवधौ यथा - ग्रामो नास्ति कुतः सीमा । स्थितौ मर्यादायां यथा - सीमां नैव विलङ्घयन्ति सुजनाः कृच्छ्रेऽपि जाते क्वचित् । क्षेत्रे यथा - सीमा: पक्वफला विभान्ति परितः साधोर्यथा सत्क्रियाः । विषयकेशभूषणयोरपि मंख: । क्रमेण यथा - सीमां यदा याति दृशोः कृशाङ्गी । सीमा भूषितसीमन्ताः । सूक्ष्मोऽणौ । सूच्यते सूक्ष्मः । रुक्म ग्रीष्म ( उ० ३४६ ) इति साधुः अणुः परमाणुः । यथा - सूक्ष्मो न लक्ष्यो दृशा । सूक्ष्ममल्पके । अध्यात्मे कतके । अल्पके तनुतरे वाच्यलिङ्गः । यथा - निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा । अध्यात्मं अन्तरात्मविषयं रूपम् । तत्र यथा - सूक्ष्मत्वं वा तदपि सदसद्व्यक्त्यभावादचिन्त्यम् । कतकं कतकवृक्षफलम् सोमस्त्वौषधी तद्रसेन्दुषु । दिव्यौषध्यां घनसारे समोरे पितृदैवते । वसुप्रभेदे सलिले वानरे किन्नरेश्वरे । सूयते सोमः । अर्तिरि ( उ० ३३८) इति मः । एकादशस्वर्थेषु । ओषधो श्यामलता । तत्र यथा- याहि मुनय इह सोमरसं रसयन्ति संयमधनास्त्वमत्र कः । तद्रसः सोमवल्लीरसः । तत्र यथा- याज्ञिकैः सोमपायिभिः । इन्द्रौ यथाशिरसा धार्यमाणोपि सोमः सोमेन शम्भुना ||३३३ || दिव्यौषधि वावचिका । घनसारः कर्पूरः । समीरो वायुः । पितैव दवतं पितृदैवतं पूर्वज इत्यर्थः । वसुप्रभेदो देवविशेषः । यदाह - धीरो ध्रुवश्च सोमश्च अहवानलोनलः । प्रत्यूषश्च प्रभावश्च वसवो -