________________
द्वितीयः काण्ड:
अर्घ्यमर्घार्थमर्घार्हमास्यं मुखभवे मुखे । मुखान्तरास्या तु स्थित्यामार्य्यो सज्जनसौविदौ ||३३७|| आयमाच्छन्दसोरिज्या दाने सङ्गेऽध्वरेऽर्चने । इभ्यो धनवतीभ्या तु करेण्वां सल्लकीतरौ ॥ ३३८ ॥
( १९५)
I
अन्त्यस्त्वन्तभवेऽधमे । अन्त्ये भवोऽन्त्यः दिगादित्वाद्यः । वाच्यलिङ्गः अन्तभवे यथा- क्रियते कथमन्त्यमण्डनम् परलोकान्तरितस्य ते मया । अधमे यथा - अन्त्येषु जन्तुषु च यस्तमसावृतेषु विश्वस्यधातरि समः परमेश्वरेऽपि ।। ३३६ || अर्घ्यमर्घार्थमघर्हिम् । अर्थाय इदम् अर्घ्यम् । पाद्यार्थ्ये । ७-१-२३ इति साधुः । अर्धमर्हति वा । दण्डादित्वाद् यः । वाच्यलिङ्गः । अर्घः पूजाविधिर्मूल्यं च । तदर्थम् - तदहं च अर्घार्थम् अर्घा च । अर्घार्थे यथा - अर्घ्यं वारि समादाय | अर्ध्या गौः । विक्रेतव्य इत्यर्थः । अर्घार्ह यथातमर्घ्यमर्घादिकयादिपुरुषः । अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते । आस्यं मुखभवे मुखे । मुखान्तः । आस्ये भवम् । दिगादित्वाद् यः । व्यञ्जनात्पञ्चमान्तस्थ १-३-४७ इति प्रकृति य लोपः । अस्यत्यनेन वा । शिवयास्य ( उ० ३६४ ) इति साधुः । मुखभवे यथा - आस्येन हास्यं दशानेन चक्रे । मुखे यथा - तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि । मुखान्तर्मुखमध्ये यथा - आस्यं विकास्य विकृतं विकृतोग्रदंष्ट्रम । आस्या तु स्थित्याम् । आसनम् आस्या । आस्यटिव्रज्यजः क्यप् ५ -३ - ९७ यथा उत्तिष्ठ धृष्ट झटितीह वृथा किमास्य । आय सज्जनसौविदौ । अर्यति आर्यः । ॠवर्ण व्यञ्जनाद् घ्यण् । सज्जने यथा - मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । सोविदे यथा - अन्तःपुरं समर्यादमार्यैरेव हि कार्यते । ज्येष्ठभ्रातर्यपि । यथा - उन्मीलत्ययमार्यदौ