________________
द्वितीयः काण्डः
उमानाथे प्रतिकले, चारौ वामा तु योषिति । वामी शृगाल्यां करभीरासभोवडवासु च ॥३२९।। शमी द्रुभेदे वल्गुल्यां, शिम्ब्यां श्यामोऽम्बुदे शितौ । हरिते प्रयागवटे कोकिले वृद्धदारके ॥३३०॥
-
उमानाथे च यथा-वामदेवेन वामो यं नामशेषो विनिर्ममे । सव्ये दक्षिणेतरे यथा-विलोचनं दक्षिणमञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्रा। पयोधरे यथा-मृद्यन्ते निर्दयं वामाः । कामिनेव जिगीषुणा ।।३२८॥ प्रतिकूले यथा-वाम एव सुरतेष्वपि कामः। चारौ रम्ये यथा-किन्नाम वामनयना न समाचरन्ति । वामा तु योषिति । यथा-वामा वामविलोचना। वामी शृगाल्यां करभीरासभीवडवासु च। गौरादित्वाद् डीः । शृगाल्यां करभ्यां वडवायां च यथा-तवामी वामीभिर्नृपतिलककीर्णाः परिसराः । रासभ्यां यथा-अथोष्ट्रवामी शतहरितार्थम् ॥३२९॥ शमी द्रुभेदे वल्गुल्यां शिम्ब्याम् । शाम्यति शमी गौरादित्वाद् डीः । द्रुभेदे यथा-शमीमिवाभ्यन्तरलीन पावकाम् । शिम्बी बीजकोशः । तत्र यथा-कपिकच्छूशमीमिव । फलपूर्णा शाखाशिम्बीति मंखः । यथा-न्यग्रोधशम्य इव केन वृथा प्रणीताः श्याम्मोऽबुदेशितौ । हरिते प्रयागवटे कोकिले वृद्धदारके । श्यायतेश्यामः विलि भिलि (उ० ३४०) इति मः । शितौ कृष्णे हरिते नीले च गुणमात्रे पुंसि तद्वति वाच्यलिङ्गः। अम्बुदे यथा-श्यामश्यामलवालकोमलदलैरम्यते मालावली । शितौं यथानवजलधरश्यामाः पश्यन्दिशो भवतीं विना। हरिते यथाकुवलयदलश्यामोऽप्यङ्गं दधत्परिधूसरम् । प्रयागवटे यथा-सोऽयं वट: श्याम इति प्रसिद्धः । कोकिले यथा-श्यामः शाम्यति नैव