________________
(१९०) अनेकार्थसंग्रहः सटीकः
रामं तु वास्तुके कुष्ठे, रामा हिङ्गुलिनीस्त्रियोः । रुक्मं लोहे सुवर्णे च, रुमा स्याल्लवणाकरे ॥३२७।। सुग्रीवपत्न्यां लक्ष्मीः, श्रीशोभासंपत्प्रियङ्गुषु । वमिर्धान्तेऽनले वामः, कामे सव्ये पयोधरे ।।३२८।।
रामो निजगुण रामः । राघवे यथा- रामेण प्रियजीवितेन नु कृतं प्रेम्णः प्रियेनोचितम् । रेणुकासुते भार्गवे यथा-अवकाशं किलोदवान् रामायाभ्यर्थितो ददो। ।।३२६।। रामं तु वास्तुके कुष्ठे। वास्तुकं शाकविशेषः । कुष्ठम् ओषधभेदः । रामा हिङ्गलिनीत्रियोः। हिङ्गलिनो ओषधिभेदः । स्त्रियां यथासत्यं मनोरमा रामाः । रुक्म लोहे सुवर्णे च । रोचति रुक्मम् । रुक्म ग्रीष्म (उ० ३४६) इनि साधुः । सुवर्णे यथा-अधिरुक्ममन्दिरगवाक्षमुल्लसस्सदृशो रराजमुरजि दिदृक्षया । रुमा स्याल्लवणाकरे । सुग्रीवपत्न्याम् । रौति रुमा। विलिभिलि (उ० ३४०) ति कित् मः । लवणाकरे यथा-रुमाभूमौ सर्व पतितमिह जायते लवणम् ॥३२७।। लक्ष्मीः श्रीशोभासंपप्रियङ्गषु । लक्ष्यतेऽनया लक्ष्मीः । लक्षेर्मोन्तश्च (उ० ७१५) इति ईः। श्रियां यथाशय्यामाजिङ्ग्यनीतं वपुरलसलसद्बाहुलक्ष्भ्याः पुनातु । शोभायां यथा-मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । सम्पदि समृद्धौ यथा-लक्ष्मी तृणाय मन्यन्ते तद्भरेण नमन्ति च । प्रिय ङ्गर्लता। वमिन्तेिनले । वमनं वम्यते वा वमिः । पदि पठि (उ०६०७) . इति इः। वान्ते वमने स्त्रियाम् । अनले वह्नौ पुंसि द्वयोर्यथावमौ संजातायां भवति वमिना स्वेदकरणम् । वामः कामे सव्ये पयोधरे उमानाथे प्रतिकूले चारौ । वाति वामः। अति रि इति मः। सव्ये प्रतिक्ले चारौ च वाच्यलिङ्गः। कामे