________________
द्वितोयः काण्डः
(१८९)
AAAAAAAAAAANAAN
रश्मिणिप्रग्रहयो, रामः श्यामे हलायुधे । - पशुभेदे सिते चारौ, राबवे रेणुकासुते ।।३२६॥
काके यथा-यमोऽपि हन्यते घूकैः । यामौ प्रहरसंयमौ । याति यामः। अति रि इति मः यम्यतेऽनेन वा । प्रहरे यथा-संक्षिप्येरन् क्षण इव कथं दीर्घयामास्त्रियामाः। संयमे यथा-यामः काममपाकरोति कलुषम् । रमः कान्ते रक्ताशोके मन्मथे च । रमयति रमते वा रमः । कान्तो भर्ता। त्रिष्वपि यथा-रमो रमयते मनः रमा श्रियाम् । यथा पार्वती परमेश्वरौ । अत्र हि पार्वतीपः शम्भुः । रमेश्वरो विष्णुरित्यपि व्याख्यानम् ॥३२५।। रश्मि णिप्रग्रहयोः। अश्नुते रश्मिः। अशोरश्चादेः इति मिः । घृणिः किरणस्तत्र पुंसि । प्रग्रहो रज्जु सूत्र स्त्रियाम् । घृणौ यथा-रसात्मकस्योडुपतेश्च रश्मयः। प्रग्रहे यथा-सयत्नसूतायतरश्मिभुग्नग्रीवान्तसंसक्तयुगैः सुरङ्गैः। रामः श्यामे हलायुधे । पशुभेदे सिते चारौ राघवे रेणुकासुते । रमते रामः। वा ज्वलादि ५-१-६२ इति णः। श्यामे सिते चारौ च गुणे पुंसि । तद्वति वाच्यलिङ्गः । श्यामे यथा-रामेण निहतं दृष्ट्वा वने परशुना मृगम् । स्वकीयं निन्दति व्याधो विश्वकर्माणमर्जुनम् । अत्र हि रामेण श्यामेन परस्य अन्यस्य शुना सारमेयेण निहतं मृगं दृष्ट्वा स्वकोयमर्जुनं धवलं विश्वकर्माणं श्वानं व्याधो इत्यर्थः । विगतं श्वकर्मसारमेयकर्म यस्यासौ विश्वकर्मा तं विश्वकर्माणम् । हलायुधे यथा-ओष्टेन रामो रामौष्टबिम्बचुम्बनचञ्चुना। पशुभेदे शरभेदे यथा-रामसेविताप्यसीता। सिते शुभ्रे यथा-प्रकटितरामाम्भोदः कौशिकवान् सपदि लक्ष्मणानन्दो। सुखापनयनहेतोरयमवतीर्णः शरत्समयः। चारौ मनोशे यथा