SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ । (१८८) अनेकार्थसंग्रह स्टीकः राक्षसे भीषणे *भौमोऽङ्गारके नरकासुरे । यमः कालयमजयोरहिंसादिषु पञ्चसु ॥३२४॥ संयमे यमने ध्वाक्षे, यामौ प्रहरसंयमौ । रमः कान्ते रक्ताशोके, मन्भथे च रमा श्रियाम् ।।३२५॥ तत्र यथा-भीमकान्त पगुणैः स बभूवोपजीविनाम् । वृकोदरे यथा-उत्तं सयिष्यति कचांस्तव देवि भीमः । हरे रुद्रे यथासंध्याताण्डवडम्बरं विदधतो भीमस्य चण्डभ्रमेः । अम्लवेतसो वृक्षः। अथ भीष्मो गाङ्गेयरुद्रयोः । राक्षसे भीषणे । बिभ्यत्यस्मादिति भीष्मः। भियः षोन्तश्च वा (उ० ३४४) इति किन्मः। गाङ्गेये यथा-धुन्वन् धनुः कस्य रणे न कुर्यान्मनो भय कप्रवणं स भीष्मः । रुद्रराक्षसयोर्यथा-श्रीभीष्मपादप्रणयी स भीष्मः।।३२३॥ भीषणे वाच्यलिङ्गः। तत्र यथा-भीष्मग्रीष्मर्तुसन्तापशून्यरथ्या. न्तरस्थयोः । भोमोऽङ्गारके नरकासुरे । भूमेरपत्यं भौमः शिवाद्यण । अङ्गारके यथा-भौमदिनमभिदधत्यथवा । भृशमप्रशस्तमपि मङ्गलं जनाः। नरकासुरे यथा-त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् । यमः कालयमजयोरहिंसादिषु पञ्चसु संयमे यमने ध्वार्छ । यच्छति यमः । अच् यमनं वा न वा क्वपा ५।३।४८ । इत्यल् काले यथा-यम: स्वैरी वैरी तदपि न हितं कर्म विहितम् । यमजो यमलजातः । तत्र वाच्यलिङ्गः सुतो लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ । अहिंसादिषु यथाअहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः ॥३२४।। संयमे यथानियमो यमश्च नियतं यतिं यथा-यमने यथा-कृत्वा प्राणयमं योगी । अत्र हि प्राणस्य वायोर्यमनं नियन्त्रणमित्यर्थः । ध्वाक्षे * भूमि: क्षितौ स्थानमात्रे । भौमो०।
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy