________________
द्वितीयः काण्ड:
शाकभेद: 'पगडी हञ्जिका सोमवल्लरी | ब्रह्मशक्ति मस्तु स्याद्भ्रमणे वारिनिर्गमे ॥ ३२२॥ भ्रान्तौ कुन्दाख्ययन्त्रे च भीमो घोरे वृकोदरे । हरेऽम्लवेतसे चाथ भीष्मो गाङ्गेयरुद्रयोः || ३२३ ।।
(१८७ )
पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् । पद्ममिभबिन्दौ । गजस्य चत्वारिंशद्वर्षदेशीयस्य गात्रे शोणा बिन्दव उत्पद्यन्ते । तत्र पद्म शब्दो वर्तते । सर इव गजगात्रं पद्मपात्रं बभूव । ब्राह्मी तु भारती शाकभेदः पङ्कगडी हञ्जिका सोमवल्लरी | ब्रह्मशक्तिः । ब्रह्मण इयं ब्राह्मी । तस्येदम् । ६ । ३ । १६० । इत्यणि ब्रह्मणः । ७।४।५७। इत्यन्त्यस्वरादिलोपः । भारत्यां यथा-येषां त्वद्वदनावलोकनविद्यौ नब्राह्मिजिह्मं मनः । पङ्कगंडी हिञ्जिका सोमवल्लरी च । तिस्रोऽप्योषधयः । ब्रह्मशक्तिर्मातृभित्तत्र यथा - ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । भ्रमस्तु स्याद् भ्रमणे वारिनिर्गमे भ्रान्तौ कुन्दाख्ययन्त्रे च । भ्रमणं भ्रमत्यनेन वा भ्रमः । भ्रमणे वारिनिर्गमे च यथा - भ्रमागतैरम्बुधिरम्बुराशि: ।। ३२२ ॥ भ्रान्तिरतस्मिंस्तद्ग्रहः । मूच्र्छा च । अतस्मिंस्तद्रग्रहे यथा - शीतांशुकोटिभ्रमं बिभ्राणैरुदपादिराहु भुवने भूयात् सुभिक्षोत्सवः । मुच्र्छायां मोहे स्त्रीपुंसः । तत्र यथा - यष्टीपरुषकं हन्ति रक्तपित्तानलभ्रमम् । कुन्दाख्ययन्त्रे यथा - आरोप्य चक्रभ्रममुष्णतेजाः । छत्रेपि मंख: । यथा - शुशुभे शारदो राजा सिता भ्रभ्रमसंगमात् । भीमो घोरे वृकोदरे । हरेऽम्लवेतसे च । बिभ्यत्यस्मादिति भीमः । भियः षोऽन्तश्च वा ( उ० ३४४ ) इति किन्म: । घोरे भयानके वाच्यलिङ्गः ।
१ प्र० गण्डी । २ मु. मू० भाम क्रोधे रुचौ रवौ । भीमो० ।