________________
द्वितोयः काण्डः
धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ।
सत्सङ्गेऽहत्यहिंसादौ न्यायोपनिषदोरपि ॥३१९॥ स दमेनेन्द्रियाणीव विजिग्ये रिपुभूपतीन् । दमने यथा-दम मदकलादीनां वर्णयन्ति न वर्णिनः । दस्मस्तु हव्यवाहे स्याद्यजमाने मलिम्लुचे । दस्यत्यनेन दस्मः विलि भिलि इति मः । हव्यवाहोऽग्निः । यजमानः सत्री। मलिम्लुचश्चौर: धर्मो यमोपमापुण्यस्वभावाचारधन्वसु । सत्सङ्गेऽर्हत्यहिंसादौ न्यायोपनिषदोरपि । धरति धर्मः । अतिरि (उ० ३३८) इति मः । स्वभावे पुंक्लीबः। अन्यत्र पुंसि वैजयन्ती तु धर्मो स्त्रीसुकृते साम्ये स्वभावे नानुसोमपे । न्यायाचारयमाशास्वित्याह । यमे यथाधर्मः संचिन्त्य कर्माणि गतीर्भिन्नाः प्रयच्छति । उपमायां साम्ये यथा-विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः । पुण्ये यथा-धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनः प्रणुदां श्रुतीनाम् । स्वभावे यथा-विषयेषु विनाशधर्मिषु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् । आचारे यथा-संक्रुध्यसि मृषा किं त्वं दिदृहूं मां मृगेक्षणे। ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम् । धन्वनि धनुषि यथा-स गुणेनापि धर्मेण मृगाणां मर्म विध्यते । सत्सङ्गे सज्जनसङ्गमे यथा-विनीतो धर्ममर्हति । अर्हति पञ्चदशे तीर्थकरे यथा - धर्मः प्रणतसौधर्मपतिप्रभृतिवासवः । अहिंसादौ यथा-न हिंस्यात्सर्वभूतानीत्येष धर्मः सनातनः । न्याये यथा-दशधर्म न जानन्ति धृतराष्ट्रनिवोध तान् । मत्तः प्रमत्त उन्मत्तः शान्तः क्रुद्धो बुभुक्षितः। त्वरमाण (श्च) भीरुश्च लुब्धः कामी च ते दश। उपनिषदि यथा-एष (प्र० एक) त्रयीधर्मश्चतुर्णा वर्णानामाश्रमाणां च स्वधर्मस्थापनादौपकरिकः