________________
(१८४)
अनेकार्थसंग्रहः सटोकः
जिह्मः कुटिले मन्दे च, जिगं तगरपादपे । तोक्मं कर्णमले तोक्मः, स्याद्धरिते हरिद्यवे ॥३१७।। दमः स्यात्कर्दमे दण्डे, दमने दमथेऽपि च ।
दस्मस्तु हव्यवाहे स्याद् यजमाने मलिम्लुचे ॥३१८॥ शोस्तस्य चोन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेः । निदाघधामानमिवाधिदीधितिम् । जाल्मस्तु पामरे । असमीक्ष्यकारिणि च । जलति जाल्मः । रुक्म ग्रीष्म (उ० ३४६) इति साधुः । वाच्यलिङ्गः । द्वयोर्यथा-दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते । जामिः स्वसृकुलस्त्रियोः। जमू अदने । जमति विरुद्धमिति जामिः । कमि वमि जमि (उ० ६१८) इति णिदिः । स्त्रियाम् । द्वयोर्यथा-जामयोर्यानि गेहानि शपन्त्यप्रतिपूजिताः । तानि कृत्याहतानीव विनश्यन्ति क्षणादपि ।।३१६।। जिह्म (प्र० जिम्हः) कुटिले मन्दे च । जहाति मार्दवं होयते वा जिह्मः । ग्रसिहांक्भ्यां ग्राजिहौ च (उ० ५३९) इति मः । वाच्यलिङ्गः । द्वयोर्यथा-परस्य मर्माविधमुष्णता निजं द्विजिह्वतादोषमजिह्म गामिभिः । जिह्यं तगरपादपे। बाहुलकात् क्लीबे । तोक्मं कर्णमले। तूयते तोक्मम् । रुक्मग्रीष्म इति साधुः । तोक्मः स्याद्धरिते हरिद्यवे । हरितं हरिन्मानं तत्र वाच्यलिङ्गः। हरिद्यवे पुक्लीबः । यन्मखः । त्रिषु तोक्म हरिन्मात्रे न स्त्रियाम्। हरिते यवे । हरिते यथा-ब्रह्मवर्चसकामस्य तोक्मास्तु समिधः स्मृताः। हदिद्यवे यथा-क्लीबात्क्रीणति तोक्मानि ॥३१७।। दमः स्यात्कर्दमे दण्डे दमने दमथेऽपि च । दाम्यत्यनेन दमनं वा दमः । कर्दमे यथा-वर्षात्यये याति शमं दमौघः । दण्डश्चतुपायः। बमनं तर्णकादीनाम् । दमथ उपशमः। दण्डदमथयोर्यथा