________________
द्वितीयः काण्डः
(१८३)
रक्सैन्यघट्टभेदेषु, स्तम्बे गुल्मी पटौकसौ । आमलक्येलयोर्वन्यामथ घर्मो निदाघवत् ॥३१५।। स्वेदाम्भस्यातपे ग्रीष्मोण्मणोर्जाल्मस्तु पामरे ।
असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः ॥३१६।। रुक्सैन्यघट्टभेदेषु स्तम्बे । गुप्यतेऽनेन गुल्मः । रुक्मग्रीष्म इति साधुः । 'क्लीबः । सैन्योपरक्षणम्-रक्षास्थानकम् । तत्र यथागुल्मोऽपि जाल्मेन नतेन निर्ममे ॥३१४॥ रुग्भेद उदर्योव्याधिः । तत्र यथा-दहन्नप्यग्निना तुन्दं गुल्मिभिः पूज्यते भिषक् । सेनाभेदे यथा-न जाल्मो गृल्मान्तः प्रविशति भयाघ्रातहृदयः । घट्टभेदे (शुल्क) शुक्लस्थानभेदे यथा-ममापि नाम रावणस्य रक्षापेक्षाणि गुल्मकस्थानानि । स्तम्बो लताप्रतानवृक्षादिसमूहः। तत्र यथा-तृणगुल्मवनस्पतनी । गुल्मी पटौकसि । आमलक्येलयोर्वन्याम् । गौरित्वादुडी: । पटौको गुणलयनी तत्र यथागुल्मी न वल्मीकमहीषु कार्या । आमलकी एला च वृक्षौ । वनी हस्वं वनम्। यथ धर्मो निदाघवत् । स्वेदांभस्यातपे ग्रीष्मोष्मणोः । घरति धर्मः । अत्तीरि इति मः। निदह्यन्तेऽनेन निदाघः । व्यञ्जनाद् घन ।५-३-१३२ । न्यङ्कद्गमेघादयः ।४-१-११२। इति साधुः । धर्म उष्मणे उष्णे पुंक्लीबौ-अन्यत्र पुंसि । निदाघो ग्रीष्मे पुंक्लीबोऽन्यत्र पुंसि ।।३१५॥ स्वेदाम्भसि यथा – अधर्मधर्मोदकबिन्दुमौक्तिकैरलंचकारास्य वधूरहस्करः । स निदाघवंगमिव मातरिश्वना । आतपे यथा-विरचयसि च यान्तं मूर्ध्नि धर्म: कठोरः । बहलनिदाघग्लपितैः । ग्रीष्मे यथा- धर्मः प्रियावेषमिवोपदेष्टुम् । स्मरसंजीवनम् औषधं निदाघे । ऊष्मणि उष्णे यथा-धर्मा