________________
(१८२)
अनेकार्थसंग्रहः सटोकः
क्षौमं स्यादतसीवस्त्रे दुकूलेट्टालकेऽपि च । खर्म क्षौमे पौरुषे च गमोऽध्वद्यूतभेदयोः ॥३१३।। सहपाठेऽप्यथ ग्रामो, वृन्दे शब्दादिपूर्वकः ।
खड्गादौ संवसथे च, गुल्मः सैन्योपरक्षणे ॥३१४।। रामः काममुदंवराक्रिमिरसौ सर्वं विधत्तां पुनः । रोगेऽपि मंखः । पितघ्नं कफनाशनं कृमिहरम् । क्षेमस्तु मङ्गले । लब्धरक्षणे मोक्षे च । क्षयत्यनेन अशुभं क्षेमः । अत्तीरि इति मः । पुंवलीवः। मङ्गले यथा-क्षेमं भद्रकलिङ्गशैलतनया तीरे लतावेश्मिनाम् । लब्धरक्षणे यथा - युवाभ्यामभिनिवृत्तयोगक्षेमस्य वज्रिणः । मोक्षे यथा-क्षेमं काङ्क्षति भिक्षवः । क्षेमोमा धनहर्यपि । उभा गोरी। धनहरी औषधभेदः ॥३१२।। क्षौमं स्यादतसीवस्त्रे दुकूलेट्टालकेऽपि च । क्षुमाया विकारः क्षौमम् । सूयते वा । रुक्मग्रीष्म इति साधुः । पुंक्लीबः । अतसीवस्त्रे दुकूले च यथाक्षौममाकुलतरावचकर्ष क्रान्तपल्लवमभीष्टतमेन । अट्टालके यथाक्षौमाः क्षमन्ते दृढयन्त्रघातम् । खमं क्षौमे पौरुषे च । खनति खर्म । रुक्मग्रीष्म (उ० ६४६) इति साधुः द्वयोर्यथा-खर्माभावो नीचसेवकेषु न परिधानेषु । गमोऽध्वद्यूतभेदयोः । सहपाठेऽपि । गम्यतेऽस्मिन्ननेन वा गमः । सर्वेषु यथा-आगमशास्त्रमिवानेकगमं दुर्गमं नगरम् ॥३१३॥ अथ ग्रामो वृन्दे शब्दादिपूर्वकः । खड्गादौ संवसथे च । ग्रस्यते ग्रामः । ग्रसिहाक्भ्यां ग्राजिहौ च (उ० ३३९) इति मः । शब्दादिपूर्वको ग्रामशब्दो वृन्दिसमूहे वर्त्तते । आदिशब्दात् विषयास्त्रभूतेन्द्रियगुणादिग्रहः । तत्र संवसथे च यथा-उत्सन्नविषयग्रामास्थानादुचलितद्विजाः । षड्गादौ यथा-स्फुटीभवद् ग्रामविशेषमूर्च्छनाम । गुल्मः सैन्योपरक्षणे ।