________________
द्वितोयः काण्डः
(१८१)
क्षमा क्षान्तौ क्षितौ कामं, बाढेऽनुमितिरेतसोः । कामः स्मरेच्छाकाम्येषु क्षुमा *स्यान्नीलिकातसी ।।३११॥ कृमिः क्रिमिश्व लाक्षायां, कोटे क्षेमस्तु मङ्गले ।
लब्धरक्षणे मोक्षे च, क्षेमोमा धनहर्यपि ॥३१२॥ क्षममाश्रमं ते। हिते यथा-त्वत्पादपद्मप्रणतिः क्षमं परम् । क्षमायुक्ते यथा-न समयपरिरक्षणं क्षमं ते। क्षमावति सहिष्णौ यथा-परीषहक्षमो भिक्षुः ॥३१०॥ क्षमा क्षान्तौ क्षितौ । क्षमते क्षमणं वा क्षमा द्वयोर्यथा-व्यासः क्षमाभृतां श्रेष्ठो वन्द्यः स हिमवानिव । कामं बाढेऽनुमितिरेतसोः । कामयते कामम् । वाढे भृशे यथा-कामं कामं कुसुमधनुषोप्यावहन्ती सुशोके । लोकेऽनुमतौ यथा-कामं क्षाम्यतु यः क्षमी । अनुमितौ अव्ययमिति केचित् । रेतसि यथा-न शीघ्रकामः किल कामिनीप्रियः । कामः स्मरेच्छाकाम्येषु । कामयते कामनं काम्यतेऽसाविति वा वा कामः । इच्छायां पुंक्लीबः । स्मरे यथा-दृष्टिप्रपातं परिहृत्य तस्य कामः पुरः शुक्रमिव प्रयाणे । इच्छायां काम्ये इन्द्रियभोग्ये च यथा-न यातु कामः कामानामुपभोगेन शाम्यति । क्षुमा स्यान्नी (ना)लिकातसी । क्षौति अनया क्षुमा । क्षुहिभ्यां वा (उ० ३४१) इति कित् मः । द्वेऽपि ओषधी। अतस्यां यथा-क्षोमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु । अत्र हि क्षुमाया विकारः क्षौमम् ।।३११॥ कृमिः क्रिमिश्व लाक्षायां कीटे । करोति कृमिः। कृभूभ्यां कित् (उ० ६९०) इति मिः । क्रामति-इति कृमिः । कमितमि (उ० १०७) इति इप्रत्ययोऽकारस्येत्वं च । पुल्लीङ्गः । लाक्षायां यथा-केवल: कृमिरक्तोऽयम् । कोटे यथा-कर्दमेऽपि कृमिः । स्थास्नुः कल्पं जीवितुमिच्छति ।