________________
(१८०) अनेकार्थसंग्रहः सटीकः
वस्त्रसंकोचलेखायां, क्रमः कल्पांहि-शक्तिषु ।
परिपाट्यां क्षमः शक्त, हिते युक्त क्षमावति ॥३१०॥ उमा । अवेह स्वश्च वेति मो मव्यवोति ऊटो हस्वत्वं च । गौर्यां यथा-उमामुखं तु प्रतिपद्यलोला । हरिद्रायाम अतस्यां च यथासमन्तादौ मीनैः पिहितपथमत्युच्चविटपैः । कीर्तिकान्त्योर्यथासोमालङ्कृतविग्रहो वृषगतिः श्रीशंकरः सर्वदा । ऊर्मिः पीडाजवोत्कण्ठाभङ्ग-प्रकाशवीचिषु । वस्त्र संकोचलेखायाम् । इत्ति ऊर्मिः । अर्तेरुर्च (उ० ७३६) इति मिः। सप्तस्वर्थेषु स्त्रीपुंसः । पीडोत्कण्ठयोर्यथा-कुसुमकार्मुककर्मकृतोमिभिर्न लभते निशिशर्ममृगेक्षणा। जवो वेग: वीचि: कल्लोलः। तयोर्यथाअश्वाप्यधुर्वसुमतीमतिरोचमानाः तूर्णं पयोधय इवोर्मिभिरापतन्तः। भङ्गो विच्छित्तिः भङ्गे प्रकाशे वस्त्रसंकोचे लेखायां च यथावातनिर्मितवस्त्रोमिनर्मपात्रं बभूव सा ॥३०९॥ क्रमः कल्पांहिशक्तिषु । परिपाट्याम् । क्रामन्ति अनेन क्रमः । कल्पो न्यायः शास्त्रं वा । न्याये यथा-कोऽयं क्रमो यत्परिहृत्य दक्षतां, प्रयाति विक्लव्यमनुत्तरं भवान् । शास्त्रे यथा-क्रममधीते। अंही चरणे यथा-क्रमपरिमिताभूमिर्विष्णोर्न गौर्न च लाङ्गलम् । शक्तौ यथा-राज्ये पुण्यैकसंसाध्ये किमर्थ क्रमसम्भ्रमम् । परिपाट्यां यथा-प्रचक्रमे वक्तुमनुज्झितक्रमः । परम्परा पादविक्षेपानन्तर्यपदसन्धिष्वपि मंखः । परम्परायां यथा-न श्री: कुलक्रमायाता शासने लिखितापि वा । पादविक्षेपे यथा-न चित्रमुच्चैः श्रवसः पदक्रमम् । आनन्तर्ये यथा-क्रमेण निस्तीर्य च दोहदव्यथाम् । पदसन्धौ यथा-नारुद्धः (द्रः) क्रमपाठकः । क्षमः शक्ते हिते युक्ते क्षमावति । क्षमते क्षमः। वाच्यलिङ्गः । शक्ते यथा-सर्वोपकार