________________
द्वितोय: काण्ड:
(१७९)
AAAAAAAAAAAA
armananwww.m
सभा सभ्येषु शालायां, गोष्ठ्यां द्यूतसमूहयोः । स्वभूर्विष्णौ विधावामोऽपक्वे रुग्भेदरोगयोः ॥३०८।। उमा गौर्यां हरिद्रायां, कीर्तिकान्त्यतसीष्वपि । । ऊर्मिः पीडा जवोत्कण्ठाभङ्गप्रकाशवीचिषु ॥३०९।।
घटनामासूत्रयञ् ज़म्भते । शुभो योगे। शोभते शुभः । नाम्युपान्त्य ५-१-५४ । इति कः । यथा-सिद्ध : माध्यः शुभ: शुक्ल: । अजेपि मंखः । कस्याच्छुभापचितिबद्धधृतिस्त्वदन्यः । शुभं भद्रे । यथा-हरत्यघं संप्रति हेतुरिष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । स्तंभ: स्थूणांगजाड्ययोः । स्तम्नाति रतंभन वा स्तंभः। द्वयोर्यथा-स्तंभं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः ॥३०७।। सभा सभ्येषु शालायां गोष्ठयां द्यूतसमूहयोः । सन्यते सभा। सनेर्डित् (उ० ३३०) इति भः। सभ्येषु यथा-सभायां न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । शाला मन्दिरं तत्र यथा-व्यद्योतिष्ट सभावेद्यां गोष्ठयां स हृदयैः सह । आसनबन्धे यथा-सभामौषीन्महीपतिः। द्यूते यथा-सभायां तादृश्यां नरपतिशतैरक्षकितवैः समभ्याकीर्णायाम् । समूहे यथा-(प्र० प्रसभोद्धृता सरभसा सभां जयत्) प्रसभोद्धृतासुरसभोऽसभाजयत । स्वभूर्विष्णौ विधौ । स्वस्माद् भवति स्वभूः । क्विप् । पुंसि । द्वयोर्यथा-देयात्स्वभूभूतिमनिन्दितां वः। अथ मान्ताः । आमोऽपक्वे रुग्भेदरोगयोः । आमयति आमः अपक्वे वाच्यलिङ्गः। तत्र यथा-आमगोरस सम्पृक्त द्विदलं पुष्पितौदनम् । रुग्भेदे यथा-स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति । रोगमात्रे यथा-आम निकामं प्रवदन्ति कामम् ॥३०८।। उमा गौर्यां हरिद्रायां कीर्तिकान्त्यतसीष्वपि । अवति