________________
द्वितोयः काण्ड:
(१५५)
दानं मतङ्गजमदे, रक्षणच्छेदशुद्धिषु ।। विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः ॥२६४॥
ततः प्रतोमः । तनुर्वपुस्त्वचोः । विरलेऽल्पे कृशे । तन्यते तनुः । भृमृत्दृत्सरीत्युः (उ० २१६) वपुस्त्वचोस्त्रियाम् । शेषेषु वाच्यलिङ्गः । वपुषि यथा-तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः । त्वचि यथा-तरुतनुभिः कृतवस्त्रसंहतिः। विरले यथा-रराज तन्वी नवरोमराजिः । अल्पे यथा-सुहृदपि न याच्यस्तनुधनः । कृशे यथा-तन्वङ्गी निरपायमध्वनि मुहुः श्रोणीभरं निन्दति । दण्डी यमे द्वा:स्थसदण्डयोः । दण्डोऽस्यास्ति दण्डी । सदण्डे वाच्य लिङ्गः । यमे यथा-दण्डं दण्डीव भूतेषु धारयन् धरणीपतिः । द्वा:स्थे यथा-नन्दिना हरदण्डिना । सदण्डे यथा-व्याप्तं शात्तीकयाष्टोकैः खड्गिभिर्दण्डिभिनुभिः । ।।२६३।। दानं मतङ्गजमदे रक्षणच्छेदशुद्धिषु । विश्राणनेऽपि । दें पालने । दौंच छेदने । दैच् शोधने । डुदांक् दाने वा । अनटि दानम् । मतङ्गजमदे यथा-कटस्थलप्रोषितदानवारिभिः । रक्षणे यथा-भूमण्डलदानशक्ताः । छेदे विश्राणने च यथा गोत्राणां शतकोटिदाननिरतः। शुद्धौ यथा-कृशानुयोगात्कनकस्य दानम् । लवनेऽपि यथा-नामूलं वहिषो दानं कुर्यात्पित्र्येषु कर्मसु । अथ द्युम्नं द्रविणवद्धनौजसोः । दिविमीयते द्युम्नम् । धुसुनिभ्यो माङोडित् इति डित् नः । द्रवति द्रविणम् । द्रुहृवृहि (उ० ८८४) इति इणः। घुम्नद्रविणशब्दौ प्रत्येकं धनौज सोर्वर्तेते-इत्यर्थः । द्युम्नशब्दोरूपेऽपि मंखः । त्रिष्वपि यथाप्रद्युम्नः प्रद्युम्नो विरूपकः खलु विरूपको नियतम् । द्रविणशब्दो धनौजसोः । क्रमेण यथा-द्रविणमापदि भूषणमुत्सवे । उपोढ