SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ अनेकार्थसंग्रहः सटीक: धनं वित्ते गोधने च स्याद्धन्वस्थलचापयोः । धन्वामरौ धन्वी पार्थे छेके ककुभचापिनोः ॥२६५॥ धनुः 'शब्दः पियालद्रौ राशिभेदे धनुष्यपि । 'धामरश्मौ गृहे देहे, स्थाने जन्मप्रभावयोः ॥२६६॥ बाहुद्रविणः शशास ॥२६४॥ धनं वित्ते गोधने च-धनति धनम् । पुंक्लीबः । वित्ते यथा-यदि भवति धनेन धनी । गोधने यथा-धनमचारयत् केशवः । स्याद्धन्वस्थलचापयोः । धवु गतौ । धन्वति धन्व । उक्षि तक्षि (उ० ९००) इति अन् । क्लीबे स्थले यथा-नीलेषु धन्वसु लुठन्ति नदन्ति दान्ताः । चापे यथा-धुन्वन् धन्व विघट्टया शितशरैर्दानोद्धरान् सिन्धुरान् । धन्वामरौ-पुंसि यथा-धन्वनि तृषित: पुरुषो रश्मिषु तोयाशया पतति । धन्वी पार्थे छेके ककुभचापिनोः। धन्व अस्यास्तीति धन्वी । शिखादित्वादिन् । ७।२।४। छेके चापिनि च वाच्यलिङ्गः । तयोः पार्थे च यथा-धुन्वन्ति धन्विनो गाव: शिरः कस्य न हृद्गताः । ककुभोऽर्जुनवृक्षः ॥२६५॥ धनुः शब्दः पियालद्रौ राशिभेदे धनुष्यपि। धनति धनुः। भृमृन्हत्सरि (उ० ७१६) इति उः । धनुषि क्लीबे । अन्यत्र पुंसि । पियालदू राजादनः । राशिभेदे यथा-स चक्राम धनौ शनिः । धनुषि यथा-धनुमतां ननु बिभ्यति के न वा । धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः। धीयते दधाति वा धाम । मन् । क्लीबे । रश्मौ यथा-उदयति विततोवरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । गृहे यथा-यस्यां कपोलै: कलधौतधामस्तम्भेषु भेजे नवदर्पणश्रीः । देहजन्मप्रभावेषु यथा-आत्मा १ प्र० शब्दे । २ प्र० धामन् ।
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy