________________
(१४६)
अनेकार्थसंग्रहः सटीक
स्कन्धः प्रकाण्डे कायेंऽसे, विज्ञानादिषु पञ्चसु ॥ नृपे समूहे व्यूहे च, सन्धा स्थितिप्रतिज्ञयोः ॥२४९॥ सन्धिर्योनो सुरगायां नाट्याऽ लेषभेदयोः । साधुजैनमुनी वाधुषिके सज्जनरम्ययोः ॥२५०॥ शैलेय शिलाजतुरूढं प्ररूढमेधितमिति यावत् । रूढे वाच्यलिङ्गः । तत्र यथा-वृद्धस्तरुरिधाराम्बुवई: । वृद्धिः कलान्तरे हर्षे वर्धने भेषजान्तरे । वर्द्धतेऽनया वर्द्धनं वा वृद्धिः । स्त्रियाम् । कलान्तरे यथा-न वृद्धिर्भाषितं विना । हर्षे यथा - सन्तु ते सर्ववृद्धयः । वर्द्धने यथा-दिनानि पद्मानि च वृद्धिमीयुः । भेषजान्तरे यथा-स ऋद्धिवृद्धी भुजयोर्बबन्ध ॥२४७॥ श्रद्धास्तिक्येऽभिलाषे च । श्रद्धानं श्रद्धा । "मृगयेच्छा" ५।३।१०१। इति साधुः । आस्तिक्यं तथेति प्रत्ययः ॥ अभिलाषो वाञ्छा । द्वयोयथा - श्रद्धेव साक्षाद्विधिनोपपन्ना । श्राद्धं श्रद्धासमन्विते । , हव्यकव्यविधाने च । श्रद्धाऽस्त्यस्य श्राद्धम् 'प्रज्ञाश्रद्धा । ७।२।३३। इति णः । श्रद्धा प्रयोजनमस्येति वा “ चूडादिभ्योऽण् ” । ६।४।११९॥ श्रद्धासमन्विते वाच्यलिङ्गः । तत्र यथा श्राद्धः श्रोता सुधीवक्ता युज्येयातां यदोश तत् । हव्यं सुरेभ्यो दातव्यं पितृभ्यः कव्यमोदनम् । तद्विधाने यथा-यत्नेन भोजयेच्छ्राद्ध बचं वेदपारगम् । शुद्धः केवलपूतयोः । शुध्यति स्म शुद्धः । वाच्यलिङ्गः । द्वयोर्यथा-सक्तवो भक्षिता राजन शुद्धाः कुलवधूरिव ॥२४८॥ स्कन्धः प्रकाण्डे कायेऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च । स्कन्दति स्कन्धः । " स्कन्द्यमिभ्यां धः " ( उ० २५१ ) बाहुलकालोपः । प्रकाण्डो वृक्षजङ्घा ॥ तत्र यथा-स्कन्ध सुगन्धिमतुलीनवता नगस्य । काये यथा-स्थिरस्कन्धो