________________
द्वितीय काण्डः
(१४७)
-
-
-
-
-
-
-
-
-
योगी भवति दृढयोगैकवसतिः । असे भुजशिरसि यथा-व्यूढोरस्को वृषस्कन्धः विज्ञानादयो विज्ञानं वेदना संज्ञा संस्कारो रूपं चेति पञ्च तेषु यथा - सर्वकार्यशरीरेषु मुक्ताङ्गस्कन्धपञ्चकम् । नृपे यथा प्रविवेश विशाभीशः स्कन्धावारमवारितः । अत्र हि स्कन्धं राजानमावृणोति स्कन्धावारो राजधानी । समूहे यथा-सगुणस्कन्धबन्धुरः । व्यूहे यथा-स्कन्धावारनिवासिनो यदि जना जीवन्ति तत्के मृताः । अत्र हि स्कन्धं व्यूहमावृणोति स्कन्धावारः सैन्यम् । सन्धा स्थितिप्रतिज्ञयोः । सन्धानं सन्धा स्थितिमर्यादा । प्रतिज्ञा संश्रवः द्वयोर्यथा-दधार सन्धामिव सत्यसन्धः । सन्धारणेऽपि ॥२४९॥ सन्धिर्योनौ सुरङ्गायां नाटयाङ्गे श्लेषभेदयोः । सन्धीयते सन्धानं वा सन्धिः । उपसर्गादः किः ५।३।८७। पुंसि । योनौ भगे सुरङ्गायां च यथा - सन्धिं भित्वाऽविशच्चौरश्छिद्रान्वेषी स लिङ्गवत् । नाटयाङ्गे यथापञ्चसन्धिचतुर्वृत्तिचतुःषष्ठयङ्गसंयुतम् । श्लेषे यथा सस्ताङ्गसन्धौ विगताक्षपाटवे रुजानि कामं विकलीकृते रथे । सन्धानसंहिता गुणविशेषा अपि श्लेषभेदा एव । सन्धाने यथा-सख्यः किं करवाणि यान्ति शतशो ' यत्कच्चुके सन्धयः । संहिता गुर्णावशेषयोर्यथा-मा स्म सन्धि विजानन्तु मा स्म जानन्तु विग्रहम् । आख्यातं याद शृण्वन्ति भूपास्तेनैव पण्डिताः । भेदे विष्लेषे यथा-पाषाणसन्धिं विदधे जलौधः । साघुजैनमुनौ वाधुपिके सजनरम्ययोः । सानोति साधुः । कृवापाजि (उणादि १ ) इति-उण् । वाच्यलिङ्गः । जैनमुनो यथा-जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । वार्द्धषिके वृद्धजीविनि यथा - सम्पन्नो वार्त्तया साधुः । सजने यथा-तत्साधवो न न विदन्ति विदन्ति किन्तु । रम्ये यथा-साध्वी सदा सदाचारसजसजनसेविता । रम्यत्वत् । युक्तेऽपि यथा - साधु वाले