________________
(१४४) ........ अनेकार्थसङ्ग्रहः सटीकः वधूः पत्न्यां स्नुषानार्योः, स्पृका शारिवयोरपि । नवपरिणीतायां च, व्याधो मृगयुदुष्टयोः ॥२४४।। विद्ध सम्वेधितयोः क्षिप्ते विद्धि मूल्ययोः । प्रकारे भान्नविधिषु, विधिब्रह्मविधानयोः ॥२४५॥ विना । हिंसायां यथा-करोति कंसादिमहीभृतां वधात् ॥ २४३ ॥ वधूः पत्न्यां स्नुषानायर्योः स्पृक्का शारिवयोरपि । नवपरिणीतायां च । उद्यते वधूः । “वहेर्ध च" इत्यू: लियाम् । पत्न्यां यथाविवशा कामवधूविबोधिता । स्नुषायां यथा-किन्तु वयां तवैत. स्थामदृष्टसदृशप्रजम् । नार्या यथा । पात्रीकुर्वन् -दशपुरवधूनेत्रकौतूहलानाम् । स्पृक्का शारिकोषधी । नवपरिणीतायां यथावधूवरं सङ्गमयाम्बभूव । व्याधो मृगयुदुष्टयोः । विध्यति व्याधः । "तन्व्यधि" ॥५।१।६४॥ इति णः वाच्यलिङ्गः। मृगयौ यथाव्याधा मृगवधं कर्तु गेयं गायन्ति सुन्दरम् । दुष्टे यथा-पश्यैते ग्याधवाक्येण संकुले वित्तवत्तमाः ॥ २४४ ॥ विद्धं सहग्वेधितयाः क्षिप्ते । विति स विद्धम् वाच्यलिङ्गः । सदृशि यथा-विद्ध. शालभलिका । वेधिते यथा-भृङ्गश्रेणीश्यामभासां समुहै. नाराचानां विद्धनीरन्ध्रदेहः। क्षिप्ते यथा-येनापविद्धसलिलस्फुटनागसमा । अत्र हि अपेन विद्धशब्दस्यैवार्थो घोत्यते । शेयमंखः किमिव हि न विवेक्तु जानते हन्त विद्धाः। विद्धिमूल्ययोः। प्रकारे भाविधिषु । विधियतेऽनया विधानम् वा विधा । प्रकारे स्त्रीपुसः । कृद्धौ यथा-उद्भासितं मङ्गलसंविधाभिः । मालद्धिभिरित्यर्थः । मूल्यभानयोर्यथा-स्वकर्मश्रान्तोऽसौ गज एव विधाथी सभृतकः । प्रकारे यथा-स कस्य स्तोतभ्यः क तिविधगुणः कस्य विषयः । विधिः क्रिया तत्र यथा-कल्पवित्क