________________
द्वितीयः काण्डः
(१३५)
मदो रेतस्यहंकारे मद्य हर्षेभदानयोः । कस्तूरिकायां तैव्ये च मदी कृषकवस्तुनि ॥२२८॥ मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते । गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले ॥२२६॥ .. पिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः । द्वैधे द्विधाकरणे यथा-नीते भेदं धौतधारासिपातात् । उपजापे तृतीयोपाये यथाशूरं भेदेन योजयेत् । विशेषे यथा-भेदस्तथापि नाख्यातुं सरस्व यापि शक्यते ॥ २२७ ॥ मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः । कस्तूरिकायां क्षैव्ये च । माद्य यनेन मदनं वा मदः "व्यधजपमद्भयः” इत्यल् । रेतसि यथा-क्षतविण्ममूत्राणि भवन्ति युगपद्यदि । मासे तत्र तिथौ तत्र वर्षान्ते मरणं तदा । अहंकारे यथा-त्रैलोक्यं तपसा जितं यदि मदो दाणां किमेतावता। मद्ये यथा-अत्र लन्धवसतिर्गुणान्तरं किं विलासिनि मदः करिष्यति । हर्षे यथा-निर्वृति हि मनसो मदहेतुः । इभदाने यथा - अभिनवमदलेखाश्याम (सोम) गण्डस्थलानाम् । कस्तूरिकायां यथा-बाला विभाति मदमण्डितगण्डभित्तिः ।
व्ये मत्ततायां यथा-काभिनेव तरुणे। मदेन । मदी कृषकवस्तुनि । यथा-मदीमदत्त प्रमदः कृषीवलः ॥ २२८ ॥ मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते । गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले । मन्दते मन्दः मन्यते वा । “शाशपि” इति दः। शनौ गजजातिप्रमेदे च पुंसि । अल्पे शनैरर्थे क्रियाविशेषणत्वात् क्लीवे । शेषेषु वाच्यलिङ्गः । मूढे यथा-मन्दः कवियशः प्राथी गमिष्याम्युपहास्यताम् । शनौ यथा-शत्रु मन्दसितौ समस्तु शशिजो मित्राणि शेषा रवेः । रोगिणि यथा-यदपथ्य