________________
अनेकार्थसंग्रहः सटीका
मृद्वतीक्ष्णे कोमले च, रदो दन्ते विलेखने । विदा ज्ञानधियोर्बिन्दुविध्रुट्ज्ञात्रो रदक्षते ॥२३०॥ वेदिरङ्गुलिमुद्रायां, बुधेऽलंकृतभूतले । शब्दोऽक्षरे यशोगीत्योर्वाक्ये खेश्रवणे ध्वनौ ॥२३१॥ शरीरस्य तद्धि मन्दाय रोचते । अलसे यथा-मानिन्या वपुषि पतन्ति सर्गमन्दे । भाग्यवर्जिते यथा-निन्दन्ति नि दास्तवभाषितानि। गजजातिप्रभेदे यथा-न मन्दजातियुधे शस्यते गजः। अल्पे शरर्थे यथा-मन्द मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् । स्वैरे यथाम दैः पदैः संचरिते हिं डिम्भः । मन्दरते यथा मन्दे नार्यो न रज्यते । खले यथा-द्विषन्ति मन्दाश्चरितं पिनाकिनः ॥ २२९ ॥ मृतीक्ष्णे कोमले च । मृद्यते मृदु "काहृषि" इति किदुः । गुणे पुंसि तद्वति वाच्यलिङ्गः । द्वयोर्यथा-अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते हतान्तकः । रदो दन्ते विलेखने । रदत्ति रदनं वा रदः । अन् बाहूलकादल वा दन्ते यथा-उत्क्षिप्योच्चैः प्रस्फुरन्तं रदान्यामीषादन्तः कुञ्जरं शात्रवीयम् । विलेखने यथाप्रियहीना हृदयावनी रदैः। विदो ज्ञानधियोः । वेदनं वेत्त्यनया वा विदा "मिशदित्वात्" अङ् । बिन्दु र्वप्नुट्शात्रोः रदक्षते । बिंदु अवयवे बिन्दति बिन्दुः "भृमृतृत्सरि” इत्युः । वेत्ति इत्येवं शीलो वा “ विन्द्विच्छू” इति साधुः स। ज्ञातरि तु वाच्यलिङ्गः । विगुषि यथा-चिरेण नाभिं प्रथमोबिन्दवः। ज्ञातरि यथातथैव वैन्दवी कला । अत्र च बवयारेक्यस्मरणात् बिन्दुशब्देन शाताप्युच्यते । रदक्षते यथा-अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशतकम् । शून्यार्थप्रकृतिभूमध्यतेजस्वपि इति मङ्खः । क्रमेण यथा-ओंकार बिन्दु संयुक्तम् । बीजं बिन्दुः