________________
द्वितीयः काण्डः
(१३३)
नदो वहेऽब्धौ निनदे, नन्दा संपलिअरे । तिथिभेदेऽपि नन्दिस्तु, प्रतीहारे पिनाकिनः ॥२२४॥ आनन्दने च द्यु ते च निन्दा कुत्सापवादयोः । पदं स्थाने विभक्त्यन्ते,शब्दे वाकोऽङ्कवस्तुनोः॥२२५॥ नदो वहेऽन्धो निनदे । नदति नदनं वा नदः । अच् बाहुलकादल वा । वहे यथा-तीरं नदनदीपतेः । अब्धौ निनदे च यथाक्षारोनदोऽयं कुरुते नदं वृथा । नन्दा संपद्यलिअरे तिथिभेदेऽपि । नन्दनं नन्दति वा नन्दा त्रिष्वपि यथा-आनन्दमेषा वितनांति नन्दा । नन्दिस्तु प्रतीहारे पिनाकिन: । आनन्दने च द्युते च नन्दति नन्दनं वा नन्दिः “ पदिपठि" इति इः धुंसि । पिनाकिनः . शंभोः प्रतीहारे यथा-अगजास्येन्दुनन्दिः स्तात् सगजास्येन्दुनन्दिभिः । अनङ्गदाहि माहेशं साङ्गदाहि मुदे वपुः । ॥ २२४ ॥ द्यते यथा-लभ्यन्ते नन्दिना नन्द द्यतकाराद्धि केन च । निन्दा कुत्सापवादयोः । निन्दनं निन्दा । कुत्सा गरे । अपवादः अवर्णवादः । द्वयोर्यथा-मन्निन्दया यदि जनः परितोषमेति । पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः ॥ २२५ ॥ त्राणे पादे पादचिह्न, व्यवसायापेदशयोः । पद्यतेऽनेन पद्यते वा पदम् । “वर्षादयः क्लोवे" इत्यल् । एकादशस्यथेषु । स्थाने यथा-पदं लङ्केति दिव्यापुरी । विभक्त्यन्ते शब्दे वाक्ये च यथा-वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर्भोगावली: कलगिरोऽव. सरेषु पेठुः । अङ्के लक्ष्मणि यथा-नवनखपदभङ्ग गोपयस्यंशुकेन । वस्तुनि यथा-पदे रिक्ते रिक्त विनिहितपदार्थान्तरमिति। अत्र पदार्थान्तरं वस्त्वन्तरमित्यर्थः ॥ २२५ ॥ त्राणे शरणे यथा- परम 'प्र० निनादे
-
-