________________
(१३२)
अनेकार्थसङ्ग्रहः सटीकः
गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे । छदः पत्रे पतत्रे च ग्रन्थिपणतमालयोः ।। २२२ ।। छन्दो वशेऽभिप्राये च दृषत् पाषाणमात्रके । निष्पेषणार्थपट्टऽपि धीदा कन्यामनीषयोः ॥२२३॥
नव । चक्रभूमौ यन्त्रविशेष यथा-तदयमपि हि त्वष्टुः कुन्दे भविष्यति चन्द्रमाः । माध्ये यथा-द्योतितान्तः सभैः कुन्दकुड्मलाप्रदतः सितैः । क्षोदः पेषणचूर्णयोः क्षुद्यते शोदः । पेषणे यथा-तुरङ्गमखुरक्षोदोस्थितै रेणुभिः । चूणे यथा - वडोद सहोदरं तव यशः ॥२२१॥ गदः कृष्णानुजे रोगे। गदति गदः । कृष्णानुजे यथा-जगादाने गदाग्रजम् । रोगे यथा-सगदोऽप्यगदवशीकृतः । गदा प्रहरणान्तरे यथा-चश्चद्भजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । छदः पत्रे पतत्रे च ग्रन्थिपर्णतमालयोः । छाद्यतेऽनेन छदः “पुनाम्नि घः" " एकोपसर्गस्य" इति ह्रस्वः पुंक्लीबः । पत्त्रं दलं तत्र यथा-सतच्छदक्षीरकटुप्रवाहम् । पतत्त्रं पिच्छं तत्र यथा-सितच्छदै छादितमेतदम्बरम् ॥ २२२ ॥ छन्दो वशेऽभिप्राये च । चन्दनात् छन्दः । त्रि पृषोदरादित्वात् चस्य छत्वम् । वशे यथा-स्वच्छन्दस्य भुखंजनस्य वसतश्चिन्ताज्वरो निर्मितः । अभिप्राये यथा-छन्दानुवृतिदुःसाध्याः सुहृदो विमनीकृताः। दृषत् पाषाणमात्रके । निप्पेषणार्थपट्टेऽपि । दीर्यते दृणाति वा दृषद् "द्रईस्वश्च" इति सद् स्त्रियाम् । पाषाणमात्रके यथा-तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः । निष्पेषणार्थ पट्टे यथा-संपिष्यतां दृषदि सप्रति चन्द्रबिम्बम् । धीदा कन्यामनीषयोः । धियं ददाति धीदा मनीषा. बुद्धिः । द्वयोर्यथा-धीदावतीयं ननु कस्य धीदा ॥ २२३ ॥