________________
द्वितिय काण्डः
(१३१)
अन्दूः स्यान्निगडे भूषाभेदे ककुदवत् ककुत् । श्रेष्ठेवषाङ्गेराटिचह्नव्यान्मांसाशिरक्षसोः ॥२२०॥ कन्दोऽब्दे सूरणे सस्यमूले कुन्दोऽच्युते निधो । 'चक्रभूमौ च माध्ये च क्षोदः पेषणचूर्णयोः ॥२२१॥ कर्णा-द्युतिद्योतितदिग्मुखा । ककुदवत् ककुत् । श्रेष्ठं वृषाङ्गे राचिह्ने । ककते ककुत् । बाहुलकात् " उत्ककेणिद्वा” इति उदे ककुदम् ककुत् क्लोबे । ककुदः पुल्लीबः । गौडस्तु-"स्त्री ककुत् ककुदोप्यस्त्री वृषाङ्गे राध्वजे वरे" इत्याह । श्रेष्ठे यथा-राजत्ययं मुनिककुलपसा कृशाङ्गः । इक्ष्वाकुवंश्यः ककुदं नृपाणां दिलीप इत्याहितलक्षणोऽभूत् । वृषाङ्ग शृंगमंसकूटो वा । तत्र यथा-समुल्लिखन दर्पकलः ककुद्मान् । ककुदखुरविषाणेर्लक्ष्यतेऽसौ महोक्षः । राचिह्न छत्रादि तत्र यथा - उच्छ्रितककुदमहाबलगजतुरगबलान्विते नृपतौ । नृपतिककुदं दत्वा यूने सितातपपारणम् । ककुदोऽपि एयर्थेषु । क्रन्यान्मांसाशिरक्षसोः । क्रव्यम् आममांसम् अत्ति ऋव्यात् । फव्यात् क्रव्यादावाम प. क्कादौ” इति विपि साधुः । मांसाशिनि वाच्यलिङ्गः द्वयोर्यथाक्रव्याद्वणपरीवारश्चिताग्निरिव जङ्गमः ॥ २२० ॥ कन्दाऽब्दे कन्दः सूरणे सस्यमूले। कं ददात कन्यते वा “शाशपि” इति दः । कन्द्यते वा पुक्लीवः । सर्वेषु यथा-कन्दैः कन्दलितं कन्दे मन्दं मन्दं प्रवर्षति । कुन्दोऽच्युते निधौ चक्रभूमौ च माध्ये च । कूयते कुन्दः “वृतुकुसुभ्यो नोन्तश्च” इति दः । माध्यं कुन्द पुष्पम् । तत्र पुंक्लीवः । शेषेषु पुंसि । अच्युते यथा-कुन्देन वृन्दावने । निधौ यथा- मकुन्दं कुन्दनीलाच चर्चाश्च निधयो 'प्र० चक्रभ्रमो प्र० चक्रभ्रमे