________________
(१३०)
अनेकार्थसंग्रहः सटीकः
वीथी वर्मनि पङ्क्तों च गृहागे नाट्यरूपके । संस्थास्पशे स्थितौमृत्यौ सार्थो वृन्दे वणिग्गण ॥२१८॥ सिक्थं नील्यांमधूच्छिष्टे सिक्थो भक्तपुलाकके । अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥२१६॥ अङ् आए । स्पशश्चरः तत्र पुंसि । शेषयोः स्त्रियाम् । सर्वेषु यथा-संस्थामुखेन स विवेद जनस्य संस्थाम् । चरे अकरान्ताऽपि इति मङ्खः । यथा-संस्थैः समीक्ष्य परकार्यमनन्यकार्यः । सार्थी वृन्दे वणिग्गणे सरति सार्थः । “सर्ते णित्" इति णित् थः । सह अर्थेन वर्तते इति वा । वृन्दे यथा-गृहान् प्रतिस्थितपान्थसार्थः कालोऽयमाध्मातनभाः पयोदैः । णिग्गणे यथासार्थवाहो धनो नाम ॥ २१८ ॥ सिक्थं नील्यां मधूच्छिष्टे । सिच्यते स्म सिक्थम् । “ नीनूरमि" इति कित् यः नीली
ओषधिः । मधूच्छिष्टं मदनम् । तत्र यथा-वक्त्रोल्लसत्कुङ्कुमसिाथकाद्याः सगन्धतैलाः कबरीवहन्ति । सिक्थो भक्तपुलाकके । भक्तपुलाकके भक्तकणे यथा-ग्रासाद् गलितसिक्थेन किं कष्टं कारणो भवेत् ॥ अथ दान्ताः॥" अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि । आप्नोति अब्दः "आपोच" इति दः, आपो ददाति इति वा । संवत्सरे पुंक्लीवः । शेषेषु पुंसि । संवत्सरे यथा-वध्याऽष्टमेऽ घिवेद्याऽब्दे दशमे तु मृतप्रजा । मेघे यथा-जायन्ते पुनर दशदनिवहादुत्सेकिनः केकिनः । मुस्तकं मेघनामत्वादब्दः । यदमर :कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ २१९ ॥ अन्दुः स्यानिगडे भूषामेदे । अदु बन्धने अन्द्यतेऽनया अन्दूः "कृषिचमि" इतिऊः स्त्रियाम् । निगडे यथा-मृदुचलदपरान्तोदीरितान्दुनिनादम्। गजपतिमधिरोहः पक्षकव्यत्ययेन । भूषाभेदे यथा-लीलान्दोलित