________________
द्वितोय काण्ड:
यूथी तु मागधीपुष्पविशेषयोः कुरण्टके। रथस्तु स्यन्दने पादे शरीरे वेतसदमे ॥२१७॥ विकीर्ण पटुतरचपलौष्ठः प्रस्फुर प्रोथमश्वः । अध्वगे यथाआ उदकान्तात् प्रियं प्राथमनुव्रजेत् । कटी कटयवयघोऽत्र यथापृथुप्रोथा तु कुट्टनी । मन्थो रवौं मथि । साक्तवे नेत्ररोगे च । मथ्नाति मथयतेऽसौ अनेन वा मन्थः । रवौ यथा मथ्नाति मन्थः प्रथितं तस्रिम् । मथि मन्थानके यथा-आपातालनिमग्नपीवरवपुर्जानाति मन्थाचलः । सक्तूनां विकारः साश्त्तवम् । तत्र यथामार्गेषु मन्थं पथिकाः पिबन्ति । यूथं तिर्यग्गणे गणे । यौति यूथम् "पथयूथ" इति साधुः तिरश्चां गर्णास्तर्यग्गणः । तत्र यथाआविर्बभूव कुशगर्भमुखं मृगाणां । यूथं तदग्रसरगर्वितकृष्णसारम् । गणे समूहमात्रे यथा-प्रत्यर्थियूथमथनप्रथमामिदण्डः ॥ २१६ ॥ यूथी तु मागधीपुष्पविशेषयोः कुरण्टके । मागधी गुल्मभेदः । कुरण्टकः किंकरातः । सर्वेषु यथा-ससल्लकीसालभिलिन्ध्रयूथी प्रसूनदः पुष्पितलागलीकः। रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे। रमते रथः "नीनूरमि" इति कित् थः स्यन्दने स्त्रोपुंसः। शेषेषु पुसि स्थन्दने यथा-रथस्थमालोक्य रथाङ्गपाणिम् । पादः क्रमः ॥२१७॥ वीथी वर्त्मनि पङ्क्तौ च गृहाङ्गे नाटयरूपके । वीयते वीथि: वीसञ्ज्यसि" इति कित् थिः, ड्यां वीथी । वर्त्मनि पङ्क्तौ च यथा-घनवीथिवीथिमवत्तोर्णवनः । गृहाङ्गे गृहभित्तिपादे यथापृथुः समर्थावसथस्य वीथी। नाटयरूपके यथा-सर्वरसलक्षणात्या युक्ता ह्यङ्गैस्त्रयोदशभिः । वीथी स्यादेकांका तौकहार्य द्विहार्य वा । संस्था स्पशे स्थितौ मृत्यौ । संतिष्ठते संस्था । विप् सूत्रे व्यत्यये लुग्वेति रेफस्य लोपः । संस्थानं वा संस्था,