________________
(११८)
अनेकार्थसंग्रहः सटीकः
शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे । शास्ता जिने शासके च शान्तिर्भद्रे शमेऽर्हति ॥ १६७॥ शितं शातौ कृशे तीच्णे, शितिर्भुजें सितेऽसिते । श्रीमान् मनोज्ञे तिलकपादपे धनवत्यपि ॥ १६८ ॥
(प्र. स्त्रियाम्) । शक्यतेऽनया जेतुं शकनं शक्तिः स्त्रियाम् । उत्साहादाविति आदिशब्दात् प्रभुत्वं मन्त्रश्च । सर्वेषु यथा-शक्तिलक्ष्मणवक्षसो निरगमन्ना रक्षसां वक्षसः ॥ १९६ ॥ शस्तं क्षेमे प्रशस्ते च । शस्यते स्म शस्तम् । क्षेमं कुशलम् । प्रशस्तं श्लाध्यम् तत्र वाच्यलिङ्गः । द्वयोर्यथा - शस्तं समस्तं जगतस्तनोतु । शान्तो दान्ते रसान्तरे । शाम्यति स्म शान्तः । दा ते निवृत्त-: विषये वाच्यलिङ्गः । तत्र यथा सतोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । रसान्तरं शृङ्गारान्नदमो रसः । तत्र यथाशान्ता रस इबाङ्गवान् । शास्ता जिने शासके च । शास्ति शास्ता.
"
शासिशंसि ” इति तृः । जिने पुंसि । शासके वाच्यलिङ्गः । जिनोऽर्हन् बुद्धो वा । तत्र यथा - जयन्ति शास्तुः पदपङ्कजानि । शासके शिक्षके यथा - शास्ताध्वे कांचेर्भुवः (प्र० शास्तान्धिका ते र्भुवः) । शान्तिर्भद्रे शमेऽर्हति । शाम्यत्यशुभमनया शास्त्यशुभम - नया शमनं (शास्यत् पशुभमनवा) वा शान्तिः शाम्यादित्याशास्यमानो वा "तिकृतौ नाम्नि " इति तिक् । भद्रशमयोः स्त्रियाम् । अर्हति पुंसि भद्रे यथाशास्यैवोऽस्तु कपालदाम । शमे यथा - तस्मिन् काले नयनसलिल योषितां खण्डितानाम् । शान्तिं नेयम् । अर्हति यथातीर्थकृत् षोडशः शान्तिः ॥ १९७ ॥ शितं शातौ हृशे तीक्ष्णे । शोंच् तक्षणे । ज्ञायते स्म शितं शतं वा " शोर्वा " इति के वा इत्वम् । वाच्यलिङ्गौ । लध्वक्षरत्वात् शितस्य प्राक् निपातः ।
८