________________
द्वितीयः काण्ड.
कशे यथा न हसति शितमध्यात्तद्वियंांगे मृगाक्षो । भाविर्भवद्धनपयोधरबाहुमूला सातोदरी यवशां क्षणमुत्सवाऽभूत् । तीणे यथा-राजन्यानां शितशरशतैः। पुराणि दुर्गाणि निशातमायुम् । अत्र नितरां शातं निशातम्, निना शातशब्दो विशिष्यते । शितिभू जे सितेऽसिते । शोंच तक्षणे शायते श्यति वा शितिः । "दृमुषि" इति कित् तिः । “शोर्वा" इति इत्वम् । मूर्जी बहु-बवस्तरुः । तत्र पुंसि तति वाव्यलिङ्गः । सिते शुभ्रे यथाश्वेतांशोः शितिभिः करैः प्रसूमरैः शुभ्राकृतं सर्वतः । असिते यथा-प्रगम्य शितिकण्ठाय । शबले पि मङ्खः । यथा-रोमन्थफेन. शितिशालशायिनस्ते । श्रीमान् मनाझे तिलकपादपे धनवत्यपि । श्रोरास्ति श्रीमान् । तिलकपादपे पुसि । शेषयोर्षाच्यलिङ्गः । मनोज्ञे यथा-श्रीमदम्भोजखण्डम् तिलकाबः पादपः तिलक पादपः। यदमरः-तिलकः क्षुरकः श्रीमान् । भवति यथाश्रीमद्भिद्रविणव्ययस्य तकर क्लेशादविज्ञायसे । १९८ ॥ शीतो हिमे व जिलं च घानीरबहुवारयोः । श्यायते स शीतः । कः । "श्यः शी द्रवमूर्ति" इति शीरादेशः । शेतेऽनेन वा “शोरी" इति किस् तः। पानीरो बेतसः । बहुधारः लेष्मातकः । तयोः पुसि । हिमजिह्मयोर्वाच्यलिङ्गः । हिमशब्देन अत्र शैत्यगुणयुक्त शीतलं सर्वमपि वस्तु उच्यते । तत्रयथा-शीतं निर्झरचारिपानमशन कन्दाः सहाया मृगाः । जिह्मोऽलसः तत्र यथा-शीतो विमेति पुनर्निजकार्यमङ्गात् । शीतं गुणे उष्णविरोधिनि गुणे गुणमात्रे क्लीधे । तद्वति तु पूर्वमुक्तः । यथा-शीतभाताच ये विप्राः । शुक्तमम्ले पूतिभूते च कर्कशे । शकेः शुचेर्वा शुक्तम् । “पुतपित्त" इति साधुः पूतिभूतकर्कशयोर्वाच्यलिङ्गः । अम्ले अमळ विशेष यथा-हठकठिनमश्मशकलं विदारय येष काश्चिक शुक्तम्।