________________
द्वितीयः काण्ड.
(१११)
मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि । मृतं मृत्यौ याचिते च यन्ता सूते निवादिनि ॥१८५।। यतिनिकारे विरतौ भिनौ युतोऽन्विते पृथक । युक्तिाये योजने च रक्तं नील्यादिरञ्जिते ।।१८६।।
स्वनान्तरम् । पुंश्चल्यां यथा-मुक्तासु युक्तं विदुषां न मातुम् ! मोचित्र इति " मुचण पमोचने " इत्यस्य स्वार्थिकण्य तस्य प्रयोगः । तत्र यथा-मुक्तोऽध्वगैः पञ्जरात् । मुक्तिचनमाक्षयः । मोचन मुच्यतेऽनया वा मुक्तिः स्त्रियाम् । मोचने यथा-बधनान्मुक्तिमासेदुः । माक्षे यथा-मुक्तिद्वारपिधानकर्मणि महामाह: कपाटायो ॥ १८४॥ मूर्तिः पुनः प्रतिमायां कायकाठि ययोरपि । मूर्च्छत्यनया मूर्छन वा मूर्तिः । स्त्रियां क्तिः । प्रतिमायां यथामूर्ति नत्वा हिरण्यमयीम् । काये यथा-मूर्याभुतस्तुङ्गया। काठिन्ये यथा-घृतस्य मूर्ति कुरुते हिमतुः । मृतं मृ तो)त्या याचिते च । मरणं धातूनामनेकार्थत्वात् म्रियते याच्यते वा मृतम् । मृ य यथा-मृतं हि प्राणिनां धर्मः । याचितं भिक्षितम् । य मनुः मृत तु याचितं भैक्षम् । मृत्युमत्यपि यथा- गते मृते प्रजिते । यन्ता । सूते निषादिनि । यच्छति यन्ता । अन्तर्भावितण्यर्थस्य यमेस्तृचि रूपम् । सूतः सारथिः तत्र यथा-अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः । निषादी गजारोहस्तत्र यथा-याति यातुः प्रमादेन गजो व्यालत्ववाच्यताम् ॥ १८५ ॥ यत्तिनिकारे विरतौ भिक्षौ । यतण निकारोपस्कारयोः । यतैङ् प्रय ने वा । यत्यते यतति वा यतिः। “ पदिपठि” इति इः। यमनं वा यतिः । क्तिः विरतौ स्त्रियाम् । निकारे भिक्षौ च पुसि । निकारे धिक्क्रियायाम् यथा-किमनेन यतिना विरतिः । श्रव्यः पाठः विरामः ।