________________
(११२)
अनेकार्थसंग्रहः सटीक:
कुङकुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे रतिः स्मरस्त्रियां रागे रते रीतिस्तु पित्तले ॥१८७।। वैदादौ लोहकिट्ट सीमनि स्रवणे गतौ । लता ज्योतिष्मती दूर्वाशाखावल्लीप्रियङ्गुषु ।।१८८॥ भिक्षुर्मुमुक्षुः । द्वयोर्यथा-सतिसेवितपादं घर गणधरमूजितप्रवरवृत्तम् । युतोऽन्विते पृथक् । यौति स्म युतः । वाच्यलिङ्गः । अन्विते यथा-प्रमथैर्युतो वृषविलासवाहनः । पृथगर्थे यथाअयुतसिद्धानामाधार्याधारभूतानाम् । युक्तिर्याये योजने च । युज्यतेऽनया योजनं वा युक्तिः स्त्रियाम् । न्याये यथा-युक्त्या यत्नघटामुपैति तदहं दृष्ट्वाऽपि न श्रद्दधे। योजने यथा-गन्धयुक्ति विधायोच्चैः । रक्तं नील्यादिरञ्जिते । कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे । रज्यते - रक्तम् । रञ्जितानुरक्तारुणेषु वाच्यलिङ्गः । अरुणे गुणे पुसि । नील्यादिरञ्जिते यथा-नीलीरक्ते. वाससि कुङ्कुमरागो दुराधेयः ॥ १८६ ॥ कुङ्कुमे यथा हेमन्ते धनरक्तपङ्कमलनक्रीडाजुषो योषितः । असृजि रुधिरे यथा-पदं तुषारसुतिधौतरक्तम् । अनुरक्ते अनुरागिणि यथा-सत्यं रक्ता विरक्ताश्च मारयन्त्येव योषितः । प्राचीनामलके यथा-हरीतकीरक्तबिभीतकानां चूर्ण विधाय । अरुणे यथा-रक्ता शोककुशोदरी क नु गता । मधुरेऽपि वल्लभटीका । रक्तवैणिकहताधर तन्त्रीमण्डलम्वणितचारु चुकूजे । रतिः स्मरस्त्रियां रागे रते । रमतेऽनया रमणं वा रतिः स्त्रियाम् । स्मरस्त्रियां यथात्वमनङ्गः कथमक्षतारतिः रागेऽनुरागे यथा-न स क्षितीशो रतये बभूव । रते सुरते यथा-रतौ ह्रिया यत्र निशाम्य दीपान् । चित्तावस्थानामिष्वङ्गस्थायिभावेषु अपि मङ्खः । क्रमेण यथा