________________
द्वितीयः काण्डः
(१०९)
%3
मांसपाकविशेषे च संपदुत्पादयोरपि। भृतिर्भरणमूल्ययोर्मतं तु संमतेऽर्चिते ॥१८२॥ पञ्चानापि भूतानामुत्कर्ष पुपुषुर्गुणाः । आदिशब्दात् जलादयः । जन्तौ यथा-आत्मवत् सर्वभूतानि यः पश्यति स पश्यति । युक्त यथा-भूतवादी प्रमाणिकः स्यात् । भूभृत् महोधरे पृथ्वीपतौ । भुवं विभर्ति भूभृत् । पुसि द्वयोर्यथा-गजैविरेजे कटकेषु भूभृताम् । भूतिस्तु भस्मनि । मांसपाकविशेषे च संपदुत्पादयोरपि । भवत्यनया भवनं वा भूति: स्त्रियाम् । भसनि यथा-स्फुटोपमं भूतिसितेन शंभुना ॥ १८१ ॥ मांसपाकविशेषे यथा-भृष्टामिषं भटित्रं स्यात् । भूतिर्भरूटकं च तत् । संपदि यथा-भूति परां प्रापितः । उत्पादे उत्पत्तौ यथा-मुक्तानां न पुनर्भूतिः । भृतिभरणमूल्ययोः । भ्रियतेऽनया भरणं वा भृतिः । स्त्रियां तिः । मूल्ये वेतने यथा-भृतिग्रहणमेवैषां फलं मुख्यम् । भरणे पोषणे यथा-कुक्षेर्यावदमी भवन्ति भृतये भिक्षाहताः सक्तवः । मतं तु संमतेऽचिते । मन्यते मतम् । वालिङ्गः । संमते यथा-मम तावन्मतमदः । अचिते यथा-मां काननाय दिशता जगतां मतेन, तातेन कर्म किमुताद्य कृतं यशस्यम् । लोष्ठमर्दनकाष्ठेऽपि । बभुर्भुवः कृष्टमती कृता इव ॥ १८२ ॥ महबृहति धीतत्वे राज्ये । मद्यते महति वा महत् । “द्रुहिबृहि" इति कतृः बृहति वाच्यलिङ्गः । अन्यत्र क्लीवे । मङ्खस्तु महद्राज्ये सांख्यबुद्धौ न स्त्री वृहति तु त्रिषु इत्याह । धीतत्वं सांख्यप्रणीतम् । बृहति धीतत्वे च यथा-न महानयं न च बिभर्ति गुणसमतया प्रधानताम् । राज्ये यथा-साधिताखिलनृपं महन्महत्संप्रति स्वनयसंपदौ च ते । मरुत् सुरेऽनिले । म्रियतेऽसौ अनेन वा मरुत् । “घ्रउत्" पुसि । सुरे यथा-क्रोधं प्रभी संहर संहरेति, यावद्रिः खे