________________
द्वितीयः काण्डः
(१०७)
भक्तमन्ने तावरे च भर्ता पोष्टरि धारके । भक्तिः सेवागौणवृत्त्योभङ्ग्यां श्रद्धाविभागयोः॥१७६। "पृषिरचि" इति किदतः । “द्रुहिवृही" इति कर्तृप्रत्यये पृषत् । उभयोरपि पृषतश दः खुसि । पृषत् शब्दस्तु मृगे पुसि बिन्दौ क्लीवः। द्वयोर्यथा-उद्दामधर्मपृषताः पृषताः कृषन्ति । पृषत् मृगे यथा-रुरुपृषद्गणसंकुलचराः ॥ १७७ ॥ बिन्दौ यथा-पाथःपतेर्ननु पृषास्यपि दृषितानि । प्रेतो मृते भूतविशेषे च परेतवत् । प्रकर्षेण परावृत्या च एति म प्रेतः परेतश्च । मृते यथास्वजनाश्रुकिलातिसंततं दहति प्रेतमिति प्रचक्षते । भ्राम्यन्नमांसपणनाय परेतभूमावाकर्ण्य भीरुरुदितानि तवागतोऽस्मि । भूतं देवयोनिः प्राणिमात्रं वा । तद्विशेषे यथा-प्रेतरङ्कः करङ्कात् । परेतभर्महिषाऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः । पोतः शिशौ प्रबहणे । पुनाति पोतः “दम्यमि” इति तः । शिशौ यथा-खद्योतपातद्युतिडम्बरेभ्यः । प्रवहणे यथा-पयोधिमध्यस्थितपोतकूपकस्थिता शकुन्तीव मुहुः प्रकम्पते । प्रोतं गुम्फितवाससोः । प्रोयते स्म प्रोतम् । गुम्फिते वाच्यलिङ्गः । तत्र यथा-प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषा । वाससि यथा-प्रोतानि पोते पवनैः प्लवन्ते ॥ १७८ ॥ भक्तमन्ने तत्परे च । भज्यते भजति वा स्म भक्तम् । तत्परे वाच्यलिङ्गः । द्वयोर्यथा-भक्ते द्वेषो जडे प्रीतिरुचित गुरु लङ्घनम् । मुखे च कटुता नित्यं धनिना ज्वरिणामिव । भर्ता पोष्टरि धारके। बिभर्ति भर्ता। तृन् तन् वा। पोष्टा स्वामी धवश्च । धने पुंसि। शेषयोर्वाच्यलिङ्गः । स्वामिनि यथा-तथेति शेषामिव भर्तुराशाम् । धवे यथा-शिवेन भर्ना सह धर्मचर्या कार्या त्वया मुक्तविचारयेति । धारके यथा--वज्रस्य भर्ता त्रिदिवं बिभर्ति । भक्तिः सेवागौणवृत्योर्भग्यां श्रद्धाविभागयोः । भजन भज्यतेऽनया वा भक्तिः । सेवायां यथा-भक्तिभूतपतौ पिनाकिनि । : गौणवृत्तौ यथा