________________
(१०२)
अनेकार्थसंग्रहः सटीकः
दीप्तं निर्भासिते दग्धे द्रुतं शीघ्रविलीनयोः। द्यतिस्तु शोभादीधित्योर्धाता वेधसि पालके ॥१७०॥ धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि ॥१७१॥ ङी । अथ दितिदैत्यमातरि खण्डने । दण्ड पालने “ देड” इति डित् इति डित् इतिः । दोंन् छेदने । दानं वा दितिः। क्तिः, स्त्रियांम् । दैत्यमातरि यथा-बहुशश्चक्रं दहता मनसि दितिर्येन दैत्यचक्रं दहता । खण्डने यथा-दिति सदैत्येषु चकार विष्णुः । ॥ १६९ ॥ दीप्तं निर्भासिते दग्धे । दीप्यते स्म दीप्तं वाच्यलिङ्गः । निर्भासितं भासुरम् । तत्र यथा-कोपदीप्तमुररीकृतधैर्यम् । दग्वे यथा दवदीप्ता महीभृतः । ज्वलितेऽपि दीप्तेन सुवर्ण वह्निना यथा । द्रुतं शीघ्रविलीनयोः । द्रवति स्म द्रुतम् । वाच्यलिङ्गः। शीघे यथा-आगच्छागच्छ शस्त्रं कुरु चतुरतुरगं संनिधेहि द्रुतम् मे । विकीने यथा-इदं भासां भर्तुद्रतकनकगोलप्रतिकृति । द्यतिस्तु शोभादीधित्योः । द्योततेऽनया द्युतिः “नाम्युपान्त्य” इति कित् इंः। स्त्रियाम् । शोभायां यथा-स्मरभरपरिरोहत्पाण्डिमा गूढातिविजितमृगाडा मोदते गण्डभितिः । दीधितौ यथा-अद्यापि शीतशुतिरात्मबिम्ब निर्माय निर्माय पुनर्भनक्ति । धाता वेधसि पालके । दधाति धाता । पातके वाच्यलिङ्गः । वेधसि यथायात्रा स्वहस्तलिखितानि ललाटपट्टे । पालके यथा-धाता समस्तक्षिते ॥ ९७० ॥ धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविद्रियेऽस्थनि । दधाति धातुः "कृशिकमि" इति तुन् नवस्वर्थेषु पुसि । रसादयो रसासृन्मांसमेोऽस्थिमजशुफ्राणि । श्लेष्मादयः श्लेष्मा वातः पित्तं चेति