________________
द्वितीयः काण्डः
(१०१)
जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः । ततं वीणादिवा येस्यात् ततो व्याप्तेऽनिले पृथौ॥१६७॥ तातोऽनुकम्प्ये पितरि तिक्तस्तु सुरभी रसे । तिक्ता तु कटुरोहिण्यां तिक्त पर्यटकौषधे ॥१६॥ त्रेता युगेऽग्नित्रये च दन्तो दशनसानुनोः । दन्त्योषध्यामथ दितिर्दैत्यमातरि खण्डने ॥ १६६ ॥ वाच्यलिङ्गः । व्याप्ते यथा-स तमीं तमोभिरधिगम्य तताम् । पृथौ यथा-वनं ततानेकतमालतालम् ॥ १६७॥ तातोऽनुकम्प्ये पितरि । तनोति तातः “सुसितनि" इति कित् तो दीर्घत्व च । अनुकम्प्ये यथा-तात ताडय ताडकाम् । पितरि यथा-न मां तातस्त्रातुं प्रभवति नवांम्बां न भवती । तिक्तस्तु सुरभौ रसे। तेजयति तिक्तः “पुत्तपित्त" इति साधुः । सुरभी वाच्यलिङ्गः । रसे पुंसि । • तद्वति वाच्यलिङ्गः । सुरभी यथा-तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः। रसे यथा-ताम्बूलं कटुतिक्तमुष्णमधुरम् । अत्र तिक्तरसयोगात् तिक्तम् । तिक्ता तु कटुरोहिणी ओषधिविशेषः । तिक्तं पर्पटकौषधे । पर्पटकौषधं पितोपशामक द्रव्यं । तत्र क्लीबः ॥ १६८ ॥ त्रेता युगेऽग्नित्रये च । त्रीन् इता त्रेता "पृषादरादित्वात् ” एत्वम् स्त्रियाम् । युगे यथा-कृतयुगे बलि
द्धत्रेतायां रावणो हतः । अग्नित्रयं दक्षिणाग्निगार्हपत्याहवनीयाः । तत्र यथा-त्रेतायां यञ्च हूयते । दन्तो दशनसानुनोः । दम्यते दन्तः “ दम्यमि" इति तः । दशने यथा-हनूमन्त दन्तै दशति कुपितो राक्षसगणः । सानुनि यथा-दन्तप्रस्खलदच्छनिर्झरजलै रम्या वनान्ता अमी । दन्त्यौषध्याम् । गौदादित्वात्