________________
द्वितीयः काण्डः
(१०३)
धुतं त्यक्ते कम्पिते च धूतः कम्पितभत्सितौ । धूर्त तु खण्डलवणे धूर्तो धत्तूरमायिनोः ॥१७२॥ त्रयः । भ्वादयो भूप्रभृतयः । ग्रावविकारो गैरिकादिः । महाभूतानि पृथिप्यप्तेजोवाय्वाकाशरूपाणि । लोहानि स्वर्णादीनि । यदाहसुवर्ण रजतं तानं रीतिः कांस्यं तथा त्रपु । सीसं च धीवरं चैवमष्टौ लोहानि चक्षते । शब्दादयः शब्दस्पर्शरसरूपगन्धाः । इन्द्रियं चक्षुरादि शुक्र वा । अस्थि पञ्चमो धातुः । रसादौ भ्वादौ श्लेष्मादौ लोहेषु च यथा-अभ्यस्तरूपसिद्धिः सुविदितधातूपसर्ग विनिपाताः । योगी वैयाकरणो जयति भिषक् कार्तिकेन्द्रो वा । ग्रावविकारे यथा-त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम् । महाभूतेषु यथा-घातवो विश्वधारणात् । शब्दादौ यथा-न धातूनपि गृह्णीयादृन्मनीभाषमागतः । इन्द्रिये यथाधातुपाटवमवेक्ष्य तिष्ठतः । अस्थ्नि यथा-यस्येह भज्यते धातु- . र्भवेत्तस्यैव वेदना ॥ १७१ ॥ धुतं त्यक्ते कम्पिते च । “धूर कम्पने" स्वादौ अपरपठितः । धूयते स्म धूतम् वायलिङ्गः । द्वयोर्यथा-तीत्रवेणधुतमार्गवृक्षया । धूतः कम्पितभर्साितौ । धूयते स्म धूतः । वाच्यलिङ्गः । द्वयोर्यथा-नादातुमन्यकरिमुक्तमदाम्बु तिक्तं धूताङ्कुशेऽनेन विहातुमपीच्छताम्भः । धूतं तु खण्डलवणे । धूर्वति धूर्त्तम् “शीरि" इति कित् तः । खण्डलवणं लवणविशेषः । धूतों धत्तूरमायिनोः । मायिनि वाच्यलिङ्गः । धत्तूरे यथा-शुष्येत् धूर्तेन पारदः । मानि यथा-अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चूंबति ॥ १७२ ॥ धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे । संतोषाध्वरयोश्चापि । ध्रियतेऽनया धरणं वा धृतिः स्त्रियां क्तिः । योगविशेषे यथा-धृतिः शूलं तथैव च । धारणा तु क्वचिद्धयेये चित्तस्य स्थिरबन्धनम् । भयेऽपि अनाकुलता