________________
(९४)
अनेकार्थसङ्ग्रहः सटीकः
ईतिरजन्ये प्रवासे स्यादूतिः स्यूतिरक्षयोः । ऋतं शिलोच्छे पानीये पूजिते दीप्तसत्ययोः ॥१५७॥ ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो ऋतुः।स्त्रीणां पुष्पे वसन्तादावेतः कर्बुर आगते ॥१५८॥ त: निश्चयनाशावयवेषु पुसि । शेषेषु पुंक्लीवः । स्वरूपे यथानान्तोऽस्य ज्ञायते कैश्चिहर्जनस्योदधेरिव । निकटे यथा-हरस्यान्तेवासी भृगुपतिरयं तिष्ठति पुरः। प्रान्ते यथा-केशा अपि विरज्यन्ते कोऽन्ते याति न विक्रियाम् । निश्चये यथा-पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥ अत्र हि दृष्टः अन्तो निश्चयोऽत्र इति दृष्टान्तः। नाशे यथा-शोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः । अवयवैकदेशस्तत्र यथा-घनकपिलजटान्तभ्रान्तगङ्गाजलोघः । अथार्हन् स्यात् पूज्ये तीर्थकरेऽपि च । अर्हति पूजाम् अर्हन् "सुगद्विषाह" इति अतृश् । पूज्ये वाच्यलिः । तत्र यथायदध्यासितमर्हद्भिस्तहि तीर्थ : प्रचक्षते । तीर्थकरे यथानमोऽर्हते भगवते स्वयंबुद्धये वेधसे ॥ १५५ ॥ अस्तः क्षिप्ते पश्चिमाद्रौ । अस्यते स्म अस्यः क्तः “दम्यमि" इति वा तः । क्षिप्ते वाच्यलिङ्गः ता यथा-कर्णतालास्तसिन्दूरे हास्तिके यस्य । सर्पति । पश्चिमाद्रौ यथा - गातोऽस्तामळमौलिमस्वरमणिः । अतिस्त्वंटनिपीडयोः अद्यतेऽनया मईनं वा अति: । श्चादित्वात् स्त्रियां क्तिः । अटनो धनुष्कोटो, यथा-संग्रामे बिभगंचकार स रिपूनत्तौ गुणं रोपयन् । पीड़ायां यथा-शिरोऽतिजीर्णज्वररोगशान्तये । आप्तो लब्धे च सत्ये चापि । आपते स्म आप्तः । वाच्यलिङ्गः लन्धे यथा-मयाप्तं रामत्वं कुशलवसुता न त्वधिगता। सत्यः प्रत्ययितः अविसंवाद इति यावत् । तत्र यथा-वाचा ह्याप्ता
P4