________________
द्वितीयः काण्डः
क्षत्ता शूद्रात् क्षत्रियायां जाते सारथिवेधसोः । नियुक्ते दासजे द्वा:स्थे कन्तुः कामकुसूलयोः॥१५॥ कान्तो रम्ये प्रिये ग्राठिण कान्ता प्रियङ्गयोषितोः कान्तिः शोभाकामनयोः क्षितिगेंहे भुवि क्षये॥१६०॥ धीना प्रमाणता । बान्धवेपि मङ्खः । यथा-आप्तैः सुहृद्भिरपि च प्रथित भाः । आप्तिः संव-धलाभयो। आप्तिः । स्त्रियां क्तिः। गंब धे यथा-न साधुभिस्तस्य कदाचिदाप्तिः । लाभे यथादुष्टाशयस्या। कुतः फलाप्तिः ॥ १५६ ॥ ईतिरजन्ये प्रवासे । ईङ् गतौ । ईयतेऽनया अयन वा ईतिः । श्चादित्वाद् स्त्रियां क्तिः । अज यमुपद्रवः । तत्र यथा-अतिवृष्टिरनावृष्टिHषकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः । प्रवासे यथा-ईतिवर्धितवियोगपीडया । स्यादतिः स्यूतिरक्षयोः । ऊयनम् ऊतिः । स्त्रियां क्तिः “य्वोः प्वरव्यञ्जने लुक् " अवनं वा ऊतिः “मव्यवि" इयि ऊट् । द्वयोर्यथा-कन्थोतिक्षपितक्षणास्तरुतले विश्रान्तिमायान्त्यमी । ऋतं शिलोच्छे पानीये पूजिते दीतसत्ययोः । अर्यते स्म ऋतम् । क्तः “शीरि” इति वा कित्तः। पूजितदीप्तसत्येषु वाच्यलिङ्गः । सत्ये तु धर्ममात्रे क्लीवः । शिलस्य कणिशादेरुञ्छनं वुष्टनं शिलोञ्छः । तत्र यथा-ऋतेन जीवन्ति बने तपस्विनः। पानीये यथा-ऋतादृते जातु न वर्तते जगत् । पूजिते यथा-ऋतोऽपि किं प्रेतपतिः प्रसीदति । दीप्तः संतापितः प्रतप्त इत्यर्थः । तत्र यथा-कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु । अत्र हि कामेन ऋतः कामात: “ऋते तृतीया समासे" इति आर । सत्ये यथा-दानं वित्तादतं वाचः ॥ १५७ ॥ ऋतिजुगुप्साकल्याणगतिस्पर्धासु । ऋति घृणागतिस्पर्खेषु ।