________________
द्वितीयः काण्डः
पूर्णः कृत्स्ने पूरिते च फाणिगुंडकरम्बयोः । बाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे ॥ १४७॥ बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रिया जे । अर्भके स्त्रैणगर्भे च मणिस्त्वजागलस्तने ॥ १४८ ।। पूरणे "वाले व्यञ्जनान्तस्था" इति तस्य नत्वे प्राणः । पूरिने वाच्यलिङ्गः । अनिले सामान्यपवने यथा-अभाङ् क्षीत् पादपं प्राणः । बले स्थाम्नि यथा-प्राणाधिकं विपुलबाहुभृतामपीदं ।
पभ्वकं किमपि कामुकमन्तरायः । १४५ ॥ हद्वायौ यथा-प्राणो नासाग्रहनामिपादाङ्गष्ठान्तगो हरित् । गन्धरसो बोलः । प्राणारतु जीविते । पुभूग्नि तत्र यथा-प्रिया कण्ठगतारत्यै प्राणा मरणहेतवे । पाणि: कुम्भ्यां चभूपृष्ठे पादमूलोन्मदस्त्रियोः पृष्यते पाणिः "पृषिहृषिभ्यां वृद्धिश्च" इति णि: । कुम्भ्याम् उन्मदनियां च स्त्रीलिङ्गः । पादमूले स्त्रीपुंसः । चमूपृष्ठे पुंसि । कुम्भी स्तम्भस्याधारः ओषधिर्वा । चमूपृष्ठे यथा-स गुप्तमूलपर्यन्तः शुद्धपाणिरयान्वितः। पादमूले यथा-उद्वेजयत्यङ्गुलिपाणिभागान् ॥ १४६ ॥ पूर्णः कृत्स्ने पूरिते च । पूर्यते स्म पूर्ण: वायलिंगः । कृत्स्ने यथा-पूर्ण व्याकरणं पपाठ न शठस्तूर्ण सजीर्णोद्यमः । पूरिते यथा-गृहात् प्रतिनिवर्तन्ते पूर्णकामा यदर्थिनः । फाणिगुंडकरम्बयोः फाण्यते फाणिः “स्वरेभ्य इ" स्त्रियाम् द्वयोर्यथावाणिः फाणिरिवोज्वला । बाणो वृक्षविशेषे स्थाच्छरस्यावयवे शरे। बलिपुत्रेऽपि । वण्यते बाणः घञ् । वृक्षे स्त्रीपुंसः । शरे पुंक्लीवः । अन्यत्र पुंसि । वृक्षविशेषे शरावयवे च यथा-सद्यः प्रवालो. द्मचारुपुत्रे नीति समाप्ते नवचूतवाले ॥१४७॥ बलिपुत्रे यथाजयन्ति बाणासुरमौलिलालिताः । देवमेदेऽपि मङ्खः । यथा