________________
द्वितीयः काण्डः
द्रुणी का जलढोण्यां देष्णो दातरि दुर्दमे । द्राणः पार्थगुरौ काके माने टोणी तु नीवृति ॥१४३॥ नौभेदे शैलसंधौ च पणः कार्षापणे ग्लहे । विक्रय्यशाकादि बद्धमुष्टौ मूल्ये भृतौ धने॥१४४॥ द्रुगाघातत्रणार्दितः । द्रणं चापक्रपाणयोः । चापं धनुः । कृपाग: खगः । तत्र बाहुलकात् क्लीबे । मौामपि । तत्र तु द्रुणा ॥ १४२ ॥ द्रुणी का जलद्रोण्यां । गौरादि वात् ङीः । कूमी कच्छपी । तत्र यथा-यत् पश्यति द्रुणीस्नेहाड्डिम्भस्तेनैव वर्द्धते । जलद्रोणी काष्ठाम्बुवाहिनी नौके यर्थः । देष्णो दातरि दुईमे (दुर्गमे)। ददाति द्यति वा देष्णः “ गादाभ्यामेष्ण ष्टक" वाच्यलिङ्गः । द्वयोर्यथा-केवा देणं विजिष्णवः । द्रोणः पार्थगुरौ काके माने । द्रवति द्रोण: "द्रीति" णः । माने पुंक्लीबः । पार्थगुरौ यथाद्वाभ्यामपि भयं द्रोणे शोपादपि शरादपि । काके काकभेदे यथाउत्कूजत्द्धधूकाव लिविहित हठास्कन्द सं मर्द जान निद्राण द्रोणकाकप्रकरकृतमहाऋन्दितेनार्द्धरात्रे । माने यथा-चतुराढको भवेद् द्रोणः। पर्वतेऽपि यथा-नीते द्रोणशैलेन सौमित्रेः शल्यहारिणा । द्रोणी तु नीवृति । नौभेदे शैलसंधौ च । गौरादित्वात् ङी। : नीवृजनपदविशेषः ॥ १४३ ॥ नौमेदः काष्ठाम्बुवाहिनी बेडा । तत्र यथा-द्रोणीमिरम्भसि संचरन्ति महार्णवस्य । शैलसंधौ यथा-अद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयन्ति । गवाद्यन्नादिभाजनेऽपि यथा-द्रोणीषु वाहा इव संग्रसन्ते । द्रोणिरिकारान्तः । श्रेण्यामपि यथा-भील्ली पल्लवशङ्कया विचिनुते सान्दद्रुमद्रोणिषु । पण: कार्षापणे ग्लहे । विक्रय्यशाकादिबद्धमुष्टौ मूल्ये भृतौ धने । व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ। पण्यते