________________
(८६)
अनेकार्थसंग्रह - कोषः सटीकः
त्राण त्राते रक्षणे च त्रायमाणौषधावपि । तीक्ष्ण समुद्रलवणे विषायोऽमरकाजिषु ॥ १४१ ॥ आत्मत्यागिनि तिग्मे च तूणी नीलीनिषङ्गयोः । द्रणः स्याद् वृश्चिके भृङ्गे द्वणं चापकृपाणयोः ॥ १४२॥
झणिः क्रमुकभेदे स्याद् दुष्टदेवश्रुतावपि । झम्यते झणिः " झणिधूणि" इति साधुः स्त्रीलिङ्ग: । क्रमुकभेदः पूगविशेषः । दुष्टस्याशुभस्य देवस्य प्रतिपादिका श्रुतिः दुष्टदैवश्रुतिः ॥ १४० ॥ श्राणं त्राते रक्षणे च त्रायमाणौषधावपि । त्रायते स्म त्राणं "ऋ ही प्रां (४/२/७६) इति तस्य नत्वम् । त्रायते त्रायते अनेन वा भावे करणे वा अनट । त्राते वाच्यलिङ्गः । शेषयोः क्लीबे । त्राते यथा - त्राणः अगीर्वाणगणेन बाणैः । रक्षणे यथा त्वद्वत्या शिथिलीकृत स्त्रिभुवनत्राणाय नारायणः । तीक्ष्णं समुद्रलवणे विषायोमरकाजिषु । आत्मत्यागिनि तिग्मे च । तेजयतीति तीक्ष्णम् भ्रणतृण " ( उ० १८६ ) इति साधुः । सप्तस्वर्थेषु । आत्मत्यागितिग्मयाafoयलिङ्गः । विषेऽयसि आजौ च यथा - तीक्ष्णेन तीक्ष्णं विलिलेप तीक्ष्णे ॥ १४१ ॥ द्रव्यहेतोरात्मान यस्त्यजति स आत्मयागी । यत् कौटिल्यः । ये द्रव्यहेतोर्व्याल हस्तिनं चापि येाधयेयुस्तीक्ष्णा इति । तिग्मे यथा - अभीक्ष्णं तीक्ष्णांशुः क्षिपति किरणैः । क्षारमात्रेपि । तूणी नीली निषङ्गयेाः । तूणण संकोचने । अचि यां च तूणी । तौतेर्वा " स्थाक्षुतोरुच्च " ( उ० १८५ ) इति णः । नीलो ओषधिः । तत्र स्त्रियाम् । निषङ्ग इषुधिः । तत्र त्रिलिङ्गः । तत्र यथा - तू गीरोग विशेोतिः । द्रगः स्याद्वृश्चिके भृङ्गे । गुणत् गतिकोटि यया च नाम्युपान्त्य ” इति के द्रुगः | ते " द्रौं" इति कित् णः । वृश्चिके यथा
65
""