________________
अनेकार्थसंग्रह-कोषः सटीकः
--- - - रज्जो सत्वादी संध्यादौ शौर्यादौ भीम इन्द्रिये । रूपादावप्रधाने च दोषान्यस्मिन् विशेषणे ॥१३७॥ *गेष्णो नटे गायने च घ्राणं तु घ्रातघोणयोः । घृणा तु जुगुप्सायां करुणायां घृणिः पुनः ॥१३८॥ रजौ सत्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये । रूपादावप्रधाने च दोषान्यस्मिन् विशेषणे । गुण्यते गुणः । ज्या मौर्वी । तत्र यथास्फुटिष्यति न कोदण्ड त्रुटिष्यति न वा गुणाः । सूदः सूपकारः । तत्र यथा-महानसे किं नु गुणा गृणन्ति । तन्तौ यथा-कुविन्दस्त्वं तावत् पटयसि गुणग्राममभितः ॥ १३६ ॥ रजौ यथा-संपूर्गोऽपि घटः कूपे गुगच्छेदात् पतत्यधः । सत्वादीनि सत्वरजस्तमांसि । तत्र यथा-त्रयीमयाय त्रिगुणात्मने नमः । संन्यादयः संधिविाहयानासनद्वैधीकभावसंत्रयाः । तत्र यथा-षड् गुगाः शक्तयस्तिस्रः। शौर्यादयः शौर्यगाम्भीर्यस्थैर्यादयः । तत्र यथा-भीमकान्तेर्नूपगुणैः । भीमे यथा-धृतराष्ट्रोऽपि गुगप्रियः । अत्र हि विरोधाभासे गुगश देन विराटगृहे सूपकारत्वाद्भीमसेन उच्यते । इन्द्रिये स्पर्शनादौ यथा-प्रकृते गसंमूढाः सजन्ते गुणकर्म लु । रूपादयो वैशेषिकोक्तश्चतुर्विशतिः । तत्र यथा-गुणवात यौवनशालिनि । अप्रयाने दोषान्यस्मिन् उत्करें च यथा-गुगाः खलु गुणा एव । विशेषणे यथा-गुगवृत्तेराश्रयाद्वचनलिङ्गे ॥ १३७॥ गेष्णो नटे गायने च । गायति गेष्णः “गादाण्यामेष्णक्” (उ० १९९) वाच्यलिङ्गः । द्वयोर्यथा - गेष्णो विष्णुचरित्रस्य । घ्राणं तु प्रातघोणयोः घ्रायते स्म घ्राणं "कही घ्रा" (४।२।७६) इति क्तस्य नत्वम् ।
१ मु० गेणु ।