________________
द्वितीय काण्डः
अल्पे यथा-निजभुजदादणुरपि नावज्ञेयो बलीयसाऽप्यबलः । उष्णा ग्रोष्मदक्षातपोहिमा । ओपति उष्णः “धृवीह्वा" (उ० १८३) इति कित् णः। चतुर्वर्थेषु दक्षे हिमे च वाच्यलिङ्गः । ग्रीष्मे यथा-उष्णतावुष्णकिरणकिरणरतिदारुणैः । दक्षे यथाउष्णक सर्वकार्येषु । आतपे यथा-यदर्थमम्मोजमिवोष्णवारणम् । अहिमोऽशीतलस्तत्र यथा-क संप्रयुष्णांशुर्गत इति तदन्वेषणपराः। ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि । ऊर्वति अशुभम् ऊर्णा " इणुर्विश” इति णः “राल्लग्” इति वलोपे "भवादेः” इति दीर्घः । भ्रमध्यगार्वतः चक्रवर्तिचिह्नम् । तत्र यथा-ऊर्णारमिसखं मुखं च शशिनः पूर्णस्य धत्ते तुलाम् । मेषादीनां लोमनि यथाऊर्णामयैस्तन्तुभिः ॥ १३१ ॥ ऋणं देये जलदुर्ग । अर्यते ऋणम् “घृवीह्वा" (उ० १८३) इति कित् ण: "क्त वा” ऋ ही घाघे ति तस्य नत्यम् । देयम् अर्थादधमणेन उत्तमय यथा-ये ऋणव्याधिपीडिताः । जलदुर्गे यथा-संपत्स्यन्ते (सम्पश्यन्ते ) कतिपयदिनस्थायिहिंसा (हंसा, दशार्णाः । अत्र हि दश ऋणानि जलदुर्गाणि अब इति व्युत्पत्तिः । कणो धान्यांशलेशयोः । कणति कणः । धान्यांशे पुसि लेशे स्त्रोपुंसः। धान्यांशे यथा-कणान् वा भक्षयित्वा तु माहिषाणि दधीनि वा । लेशे यथा-वण्डाश्चामुण्डराजस्य प्रतापशिखिनः कणाः । वितृष्वपि यथा - स्थूलाः किमित्यश्रुकणाः पतन्ति । कणा जीरकपिप्पल्याः (पिष्पलयाः) । स्त्रीलिङ्गः । जीरकं पिप्पली च ओषधिः । अतिविषायामपि । कर्णश्चम्पापतौ श्रुतौ । कर्णयति कर्णः। किरतेर्वा " इणुविश" (उ० १८२) इति णः । चम्पापतौ यथा-संशय्य कर्णादिषु तिष्ठते यः । श्रुतौ यथा-सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । अरित्रेऽपि । संसारवारांनिधिकर्णधारः ॥ १३२ ॥ क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे । व्यापारविकलत्वे च परतन्त्रत्व.