________________
परिशिष्टम्-१ अध्यात्मोपनिषत्प्रकरणं मूलमात्रम्
शास्त्रयोगशुद्धिनामाऽधिकारः ऐन्द्रवृन्दनतं नत्वा, वीतरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नामा, ग्रन्थोऽस्माभिर्विधीयते ॥१.१।। ... आत्मानमधिकृत्य स्याद्, यः पञ्चाचारचारिमा । शब्दयोगार्थनिपुणा-स्तदध्यात्म प्रचक्षते ॥१.२॥ रूढ्यर्थनिपुणास्त्वाहु-श्चित्तं मैत्र्यादिवासितम् । अध्यात्मं निर्मलं बाह्य-व्यवहारोपबृंहितम् ॥१.३॥ . . . एवम्भूतनये ज्ञेयः, प्रथमोऽर्थोऽत्र कोविदैः । यथायथं द्वितीयोऽर्थो, व्यवहारर्जुसूत्रयोः ॥१.४॥ · . गलन्नयकृतभ्रान्ति-र्यः स्याद् विश्रान्तिसम्मुखः । स्याद्वादविशदालोकः, स एवाऽध्यात्मभाजनम् ॥१.५।। मनोवत्सो युक्तिगवीं, मध्यस्थस्याऽनुधावति । तामाकर्षति पुच्छेन, तुच्छाग्रहमनःकपिः ॥१.६॥ . अनायैव नाऽर्थाय, जातिप्रायाश्च युक्तयः । 'हस्ती हन्तीति वचने, प्राप्ताप्राप्तविकल्पवत् ॥१.७॥ . ज्ञायेरन हेतवादेन, पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कतः स्यात तेष निश्चयः ॥१८॥ आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१.९॥ अन्तरा केवलज्ञानं, छद्मस्थाः खल्वचक्षुषः । हस्तस्पर्शसमं शास्त्र-ज्ञानं तद्व्यवहास्कृत् ॥१.१०॥ शुद्धोञ्छाद्यपि शास्त्राज्ञा-निरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य, पदस्पर्शनिषेधनम् ॥१.११॥ शासनात् त्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य, तच्च नाऽन्यस्य कस्यचित् ॥१.१२॥ वीतरागोऽनृतं नैव, ब्रूयात् तद्धत्वभावतः । यस्तद्वाक्येष्वनाश्वास-स्तन्महामोहजृम्भितम् ॥१.१३॥ शास्त्रे पुरस्कृते तस्माद्, वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः ॥१.१४॥ एनं केचित् समापत्ति, वदन्त्यन्ये ध्रुवं पदम् । प्रशान्तवाहितामन्ये, विसभागक्षयं परे ॥१.१५॥ चर्मचक्षुर्भृतः सर्वे, देवाश्चाऽवधिचक्षुषः । सर्वतश्चक्षुषः सिद्धा, योगिनः शास्त्रचक्षुषः ॥१.१६॥ परीक्षन्ते कषच्छेद-तापैः स्वर्णं यथा जनाः । शास्त्रेऽपि वर्णिकाशुद्धिं, परीक्षन्तां तथा बुधाः ॥१.१७॥ विधयः प्रतिषेधाश्च, भूयांसो यत्र वर्णिताः । एकाधिकारा दृश्यन्ते, कषशुद्धिं वदन्ति ताम् ॥१.१८॥ सिद्धान्तेषु यथा ध्याना-ध्ययनादिविधिव्रजाः । हिंसादीनां निषेधाश्च, भूयांसो मोक्षगोचराः ॥१.१९॥ अर्थकामविमिश्रं यद्, यच्च क्लृप्तकथाविलम् । आनुषङ्गिकमोक्षार्थं, यन्न तत् कषशुद्धिमत् ॥१.२०॥ विधीनां च निषेधानां, योगक्षेमकरी क्रिया । वर्ण्यते यत्र सर्वत्र, तच्छास्त्रं छेदशुद्धिमत् ॥१.२१॥ कायिकाद्यपि कुर्वीत, गुप्तश्च समितो मुनिः । कृत्ये ज्यायसि किं वाच्य-मित्युक्तं समये यथा ॥१.२२॥ अन्यार्थं किञ्चिदुत्सृष्टं, यत्राऽन्यार्थमपोह्यते । दुर्विधिप्रतिषेधं तद्, न शास्त्रं छेदशुद्धिमत् ॥१.२३॥ निषिद्धस्य विधानेऽपि, हिंसादेर्भूतिकामिभिः । दाहस्येव न सद्वैद्यै-र्याति प्रकृतिदुष्टता ॥१.२४॥