________________
परिशिष्टम् हिंसा भावकृतो दोषो, दाहस्तु न तथेति चेत् । भूत्यर्थं तद्विधानेऽपि, भावदोषः कथं गतः? ॥१.२५॥ वेदोक्तत्वान्मनःशुद्धया, कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम्? ॥१.२६॥ वेदान्तविधिशेषत्व-मतः कर्मविधेर्हतम् । भिन्नात्मदर्शकाः शेषा, वेदान्ता एव कर्मणः ॥१.२७॥ कर्मणां निरवद्यानां, चित्तशोधकता परम् । साङ्ख्याचार्या अपीच्छन्ती-त्यास्तामेषोऽत्र विस्तरः ॥१.२८॥ यत्र सर्वनयालम्बि-विचारप्रबलाग्निना । तात्पर्यश्यामिका न स्यात्, तच्छास्त्रं तापशुद्धिमत् ॥१.२९॥ यथाऽऽह सोमिलप्रश्ने, जिनः स्याद्वादसिद्धये । द्रव्यार्थादहमेकोऽस्मि, दृग्ज्ञानार्थादुभावपि ॥१.३०॥ अक्षयश्चाऽव्ययश्चाऽस्मि, प्रदेशार्थविचारतः । अनेकभूतभावात्मा, पर्यायार्थपरिग्रहात् ॥१.३१॥ द्वयोरेकत्वबुद्ध्याऽपि, यथा द्वित्वं न गच्छति । नयैकान्तधियाऽप्येव-मनेकान्तो न गच्छति ॥१.३२॥ सामग्र्येण न मानं स्याद्, द्वयोरेकत्वधीर्यथा । तथा वस्तुनि वस्त्वंश-बुद्धिर्जेया नयात्मिका ॥१.३३॥ एकदेशेन चैकत्व-धीर्द्वयोः स्याद् यथा प्रमा । तथा वस्तुनि वस्त्वंश-बुद्धि या नयात्मिका ॥१.३४॥ इत्थं च संशयत्वं य-नयानां भाषते परः । तदपास्तं द्वयालम्बः, प्रत्येकं न नयेषु यत् ॥१.३५॥ सामग्र्येण द्वयालम्बे-ऽप्यविरोधे समुच्चयः । विरोधे दुर्नयवाताः, स्वशस्त्रेण स्वयं हताः ॥१.३६॥ कथं विप्रतिषिद्धानां, न विरोधः समुच्चये? । अपेक्षाभेदतो हन्त!, कैव विप्रतिषिद्धता? ॥१.३७॥ भिन्नापेक्षा यथैकत्र, पितृपुत्रादिकल्पना । नित्यानित्याद्यनेकान्त-स्तथैव न विरोत्स्यते ॥१.३८॥ व्यापके सत्यनेकान्ते, स्वरूप-पररूपयोः । आनेकान्त्यान्न कुत्रापि, निर्णीतिरिति चेन्मतिः ॥१.३९॥ अव्याप्यवृत्तिधर्माणां, यथाऽवच्छेदकाश्रया । नाऽपि ततः परावृत्ति-स्तत् किं नाऽत्र तथेक्ष्यते? ॥१.४०॥ आनैगमान्त्यभेदं त-त्परावृत्तावपि स्फुटम् । अभिप्रेताश्रयेणैव, निर्णयो व्यवहारकः ॥१.४१॥ अनेकान्तेऽप्यनेकान्ता-दनिष्ठेवमपाकृता । नयसूक्ष्मेक्षिकाप्रान्ते, विश्रान्तेः सुलभत्वतः ॥१.४२॥ आत्माश्नयादयोऽप्यत्र, सावकाशा न कर्हिचित् । ते हि प्रमाणसिद्धार्थात्, प्रकृत्यैव पराङ्मुखाः ॥१.४३॥ उत्पन्नं दधिभावेन, नष्टं दुग्धतया पयः । गोरसत्वात् स्थिरं जातं, स्याद्वादद्विड् जनोऽपि कः? ॥१.४४॥ इच्छन् प्रधानं सत्त्वाद्यै-विरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४५।। विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् । इच्छंस्ताथागतः प्राज्ञो, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४६॥ चित्रमेकमनेनं च, रूपं प्रामाणिकं वदन् । योगो वैशेषिको वाऽपि, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४७॥ प्रत्यक्षं मितिमात्रंशे, मेयांशे तद्विलक्षणम् । गुरुर्ज्ञानं वदन्नेकं, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४८॥ जातिव्यक्त्यात्मकं वस्तु, वदन्ननुभवोचितम् । भट्टो वाऽपि मुरारिर्वा, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४९॥ अबद्धं परमार्थेन, बद्धं च व्यवहारतः । बुवाणो ब्रह्म वेदान्ती, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.५०॥ ब्रुवाणा भिन्नभिन्नार्थान्, नयभेदव्यपेक्षया । प्रतिक्षिपेयु! वेदाः, स्याद्वादं सार्वतान्त्रिकम् ॥१.५१॥ विमतिः सम्मतिर्वाऽपि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥१.५२॥ तेनाऽनेकान्तसत्रं यद, यद्वा सत्रं नयात्मकम् । तदेव तापशद्धं स्याद, न त दर्नयसज्ञितम् ॥ नित्यैकान्ते न हिंसादि, तत्पर्यायापरिक्षयात । मन:संयोगनाशादौ, व्यापारानपलम्भतः ॥१.५४॥ बुद्धिलेपोऽपि को नित्य-निर्लेपात्मव्यवस्थितौ? । सामानाधिकरण्येन, बन्ध-मोक्षौ हि सङ्गतौ ॥१.५५॥ अनित्यैकान्तपक्षेऽपि, हिंसादिकमसङ्गतम् । स्वतो विनाशशीलानां, क्षणानां नाशकोऽस्तु कः? ॥१.५६॥ आनन्तर्यं क्षणानां तु, न हिंसादिनियामकम् । विशेषादर्शनात् तस्य, बुद्ध-लुब्धकयोमिथः ॥१.५७॥ सङ्क्लेशेन विशेषश्चे-दानन्तर्यमपार्थकम् । न हि तेनाऽपि सक्लिष्ट-मध्ये भेदो विधीयते ॥१.५८॥