________________
क्रियायोगशुद्धिनामाऽधिकारः
७९ प्रबुद्धतयाऽप्रबुद्धावस्थाविशेषरूपनिद्राया अभावेन समुचिताहाराघुपयोगात् कफपित्तवातप्रकोपादिप्रभावितायाः स्वप्नावस्थीत्तम्भिकाया दोषविशेषरूपाया वा निद्राया अभावेन च न मनागपि चित्तविक्षोभादिकम् । प्रमादाभावेन च गृहीतमहाव्रतनियमाप्रतिघात एवैतेषाम् । ___ शुद्धमुद्रा इत्यनेन च न दाम्भिकादिलाञ्छनाशङ्कायास्तत्र समुन्मेष इति भव्यजनासेवनीयत्वं, मुनीन्द्रा इत्यनेन हितमितसत्यभाषाभाषकत्वेनाऽऽप्तप्रकाण्डत्वं मुनिनिकुरम्बोपासनीयत्वं च प्रकटितं भवति ।
विशेष्यतावच्छेदकस्याऽप्यस्याऽन्यव्यावर्तकत्वतो निरवच्छिन्नविशेष्यतानिरूपितप्रकारताश्रयत्वेन विशेषणत्वमविरुद्धम् । विशेषणत्वाव्यवहारश्च किञ्चिद्धर्मावच्छिन्नविशेष्यतानिरूपितप्रकारत्वाभावादेवेति बोध्यम् ।
यशःश्रीसमालिङ्गिता इति । यशसस्त्रिभुवनव्यापिकीर्तेर्याश्री:- परमशोभा तयाऽकीर्तिलेशासंस्पृष्टतया समीचीनतयाऽविष्वग्भावेनाऽभिव्याप्त्याऽऽलिङ्गिता ये तथा ।
अथवा 'नामैकदेशेन नामग्रहण'मिति न्यायेन यशसो- यशोविजयस्य स्वस्य या श्री:- वादिव्रातपराजयसमुल्लसिता शोभा, तया समालिङ्गिता- यथाऽहं तथा तेऽपि । तेन च स्वस्याऽप्युक्तगुणगौरवास्पदत्वमाविष्कृतं भवति ।
यत उक्तगुणव्रातनिधयोऽतो वादिदन्तिस्मयोच्छेदहर्यक्षतुल्या इति । वादिनस्तीर्थान्तरीयाः स्वतीर्थ्या अपि पूर्वपक्षग्राहिणस्ते एव कदाग्रहमदोन्मत्तत्वेन दन्तिनो- दिग्गजास्तेषां यः स्मयः- स्वपक्षस्थापनसमर्थत्वाभिमानस्तदुच्छेदे- तदुन्मूलने हरे:- केशरिणो यदक्षं- कटाक्षाकलितं नयनं तेन तुल्या इत्यर्थः । यथा सिंहकटाक्षावलोकनमात्रेण दन्तिनोऽपगतमदा भवन्ति, तथा वादिनोऽप्येतद्युक्तिगणोपेत-'स्यात्'पदाङ्कितवचनमात्रेण निरुद्धवचनप्रसरा भवन्तीति ॥३.४३, ४४॥
. .॥ इति क्रियायोगशुद्धिनामा तृतीयोऽधिकारः ॥
॥ इति अध्यात्मोपनिषद्-वृत्तिः समाप्ता ॥
000
१, 'मुनीन्द्रा' इत्येकमेव पदमत्र विशेषण-विशेष्योभयरूपेण कथं सङ्गमनीयमितीह निदर्श्यते ।