________________
अध्यात्मोपनिषत्प्रकरणम्
अत्र प्रथमान्तैरष्टभिः समस्तैर्वचनैः प्रतिपादितानामष्टानां विशेषणानां सम्बन्धतोऽन्यपुरुषव्यावृत्ता मुनीन्द्रा जयन्ति - सर्वोत्कर्षेण वर्तन्ते इत्युक्तितोऽप्रतिघगुणगणसम्पत्प्रकर्षशालित्वमेषामुपदर्शितं भवतीत्यस्य पद्मयुग्मस्य स्तुतिरूपत्वं स्पष्टमेव ।
७८
क्रियाज्ञानसंयोगविश्रान्तचित्ता इति । क्रियाज्ञानयोर्यः परस्परसहकारिभावेन सहाभ्यस्तत्वेन च संयोग- एकत्र स्वात्मनि सम्यगवस्थानं तेन विश्रान्तं- क्रियैकान्तवाद - ज्ञानैकान्तवादलब्धावकाशदोषलेशासंस्पृष्टत्वादविचलितस्वभावं चित्तं - स्वान्तं येषां ते तथा । अनेन क्रियाज्ञानसंयोगस्थिरीकृतमानसानां तेषां न मनागपि ज्ञानैकान्तादिवाद्युपनिपातिदोषप्रभवसन्त्रासोऽतः सुदृढयोगभूमाववस्थानमिति दर्शितम् ।
समुद्भूतनिर्बाधचारित्रवृत्ता इति । यत एव वशीकृतमानसत्वेन नाऽन्तर्विक्षेपोऽत एव बहिरपि समुद्भूतं - सम्यगाविर्भूतं निर्बाधमुत्तरकालीनातिचारादिबाधाविवर्जितं चारित्रं पञ्चमहाव्रतात्मकं वृत्तं येषां ते तथा । एतेन च स्वस्याऽतिचारादिविशुद्धाचरणतः परेषामपि तथाविधक्रियासाम्मुख्यकरणात् तीर्थसम्माननप्रभावनाऽनायासकारिता तेषां सुव्यक्ता । तत आपामरजनसाधारणोपकारपरायणत्वमभिव्यञ्जितं भवति ।
नयोन्मेषनिर्णीतनि:शेषभावा इति । नयानां सङ्ग्रहादीनां य उन्मेषः- स्वस्वनिमित्तापेक्षयां महासामान्यावान्तरसामान्यविशेषादिगोचरतयाऽविप्रतिपत्तिभावतः स्वात्मनि तत्तदंशज्ञानानुकूलतयाऽभ्युपगमात्मकः प्रकटभाव:, तेन निर्णीतो- निश्चयविषयतामानीतो निःशेषः- समस्तो भावो - धर्मो यैस्ते तथा । अनेन च सर्वापरतन्त्ररहस्याभिज्ञत्वेन तत्तत्तन्त्राभिमततत्त्ववस्तुस्थितिपरिपोषकत्वेन मध्यस्थभावाधिवासतया सर्वतान्त्रिकनिष्कारणमित्रत्वं तेषां प्रकटितं भवति । ततश्च सर्वैरपि तान्त्रिकैः स्वस्वाभिमततत्त्वपरीक्षणाय ते उपासनीया, तेषां च वादे न केनाऽपि वादिना परिभवः कर्तुं शक्य इति व्यञ्जितं भवति ।
तप:शक्तिलब्धप्रसिद्धप्रभावा इति । तपसां श्रुतविहितानां बाह्याभ्यन्तरभेदपरिगतानां यथावत्करणेनाssविर्भूता या शक्ति:- अप्रतिघसामर्थ्यं सा तपः शक्तिस्तया लब्धः - प्राप्तः प्रसिद्ध- आपामरजनप्रतीतः प्रभाव:- प्रभुत्वं यद्यदिच्छति तत्तदनायासमेवोपतिष्ठते, यत्किमपि वक्ति तत् परस्याऽचिन्तितमपि सम्पद्यते, दर्शनमात्रेणाऽपि तेषां परस्याऽभीष्टं सम्पन्नमेवेत्यादिरूपं येषां ते तथा । एतेन वादिनोऽपि तत्पराजयार्थं तत्समीपमुपगतास्तत्प्रभावकुण्ठितमतयस्तत्समीपगमनाहितावैरभावाः सम्पद्यन्ते इत्यावेदितं भवति ।
भयक्रोधमायामदाज्ञाननिद्राप्रमादोज्झिता इति । भयं परेभ्यः स्वस्याऽनिष्टाशङ्कनं, क्रोधो - द्वेषः परान् पराभवितुं स्वस्य समन्तात् तेज:प्रकटनं, माया- परवञ्चनं मदो- जातिकुलविद्याद्यभिमानम्, अज्ञानं - यथास्थितवस्त्वपरिज्ञानं निद्रा- बहिरिन्द्रियमतिक्रम्य मनसो विक्षेपविशेषरूपा प्रसिद्धैव, प्रमादः - अन्यमनस्कत्वं, एतैर्भयादिभिरुज्झिता:- परित्यक्ता ये ते तथा । अत्र भयवर्जितत्वेन परतैर्थिकप्रकाण्डसमूहे ऽपि स्वमताविष्करणं शास्त्रोक्तक्रियानुष्ठानं चाऽनाकुलमेवैतेषाम् । क्रोधरहितत्वेन च परप्रयुक्तावर्णवादाद्युपनिपातेऽपि यथास्थितस्वक्रियानुष्ठानादिराजमार्गतो न कदाप्यसहनादिदोषात् परिभ्रष्टत्वम् । मायाराहित्येन च न वञ्चनादिनाऽन्येषां स्वमते प्रवर्तकत्वं किन्तु समुपदेशत एव । मदाभावेन च कुलादिनाऽपकृष्टतोऽपि हितवचनाद्युपादानम् । अज्ञानाभावेन च न जिनोक्ते तत्त्वनिकुरम्बेऽश्रद्धाद्याविर्भावकथाऽपि । सदा