________________
क्रियायोगशुद्धिनामाऽधिकारः
प्रतिक्षणं परिणमनलक्षणस्वभाववतश्चाऽऽत्मनः क्रिया स्वभावान्तः सन्निविष्टैव । तस्याश्चाऽपनयनं कस्यामप्यवस्थायां न शक्यते विधातुमित्याह - न तु - नैव प्रयाति - गच्छति ।
-
अत्राऽनुरूपं दृष्टान्तमाह – चन्दनादिव सौरभमिति । चन्दनरूपद्रव्याद् यथा सौरभात्मको गुणस्तदाश्रितस्वभावः पार्थक्यं - पृथग्दशत्वं नैव गच्छति, गुणस्य गुणिनमन्तरेणाऽवस्थानासम्भवात्, गुणिनश्च गुणमन्तरेण स्वभावप्रच्युतेः । तथा सक्रियस्वभावस्याऽऽत्मनः क्रियामन्तरेण न सम्भवत्यवस्थानं, तत्स्वभावान्तःप्रविष्टत्वात् तस्या इति ॥ ३.४०॥
ज्ञानिनः क्रियाऽसङ्गानुष्ठानलक्षणा पराभिमतयोगिसम्मताऽपीत्थमेव घटते, ज्ञानिनोऽक्रियत्वेऽनुष्ठानार्थस्यैवाऽघटनान्न सा सङ्गता स्यादित्याह
-
प्रीति-भक्ति-वचो-ऽसङ्गै - रनुष्ठानं चतुर्विधम् ।
यत् परैर्यीगिभिर्गीतं, तदित्थं युज्यतेऽखिलम् ॥३.४१॥
७७
प्रीत्यनुष्ठानं भक्त्यनुष्ठानं वचोऽनुष्ठानमसङ्गानुष्ठानमित्येवमनुष्ठानं चतुर्विधं चतुःप्रकारं यत् परैःपरसम्मतैर्योगिभिः- आसादितयोगस्वरूपैर्गीतम्- अविगानेन प्ररूपितम् । तद्- उपदर्शितचतुःप्रकारमनुष्ठानम् । अखिलं- समग्रम्, इत्थं - ज्ञानिनः क्रियाया असङ्गत्वोपपादनलक्षणप्रकारेण युज्यते - घटते । अन्यथा तुरीयस्यासम्भवे चतुः प्रकारत्वमनुष्ठानस्याऽसङ्गतं स्यात् ।
प्रीत्याद्यनुष्ठानस्वरूपमित्थं
.
यत्राऽनुष्ठाने प्रयत्नातिशयोऽस्ति परमा च प्रीतिरुत्पद्यते शेषत्यागेन च यत् क्रियते तत् प्रीत्यनुष्ठानम् । एतत्तुल्यमप्यालम्बनीयस्य पूज्यत्वविशेषबुद्ध्या विशुद्धतरव्यापारं भक्त्यनुष्ठानम् । शास्त्रार्थप्रतिसन्धानपूर्वा साधोः सर्वत्रोचितप्रवृत्तिर्वचनानुष्ठानम् । व्यवहारकाले वचनप्रतिसन्धाननिरपेक्षं दृढतरसंस्काराच्चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतं जिनकल्पिकादीनां क्रियासेवनमसङ्गानुष्ठानमिति योगविंशिकावृत्तौ ॥३.४१ ॥
`युंगपज्ज्ञान-सत्पुरुषक्रमाभ्यासशालिनोऽवश्यमेव निर्वाणमिति निगमयति
ज्ञाने चैव क्रियायां च युगपद्विहितादरः ।
द्रव्यभावविशुद्धः सन्, प्रयात्येव परं पदम् ॥३.४२ ॥
चैवेत्यधिकमपि समुच्चयवादे स्वस्य ग्रन्थकर्तुरत्यन्तमेव पक्षपात इत्युपदर्शनपरं न दोषावहम् । उत्तानार्थमेवेदम् ॥३.४२॥
क्रियाज्ञानोभयाभ्यासिनः पुरुषधौरेयान्नभिष्टौति पद्याभ्याम् -
-
क्रियाज्ञानसंयोगविश्रान्तचित्ताः, समुद्भूतनिर्बाधचारित्रवृत्ताः । नयोन्मेषनिर्णीतनि:शेषभावा-स्तपः शक्तिलब्धप्रसिद्धप्रभावाः ॥ ३.४३॥
भयक्रोधमायामदाज्ञाननिद्रा - प्रमादोज्झिताः शुद्धमुद्रा मुनीन्द्राः । यश:श्रीसमालिङ्गिता वादिदन्ति - स्मयोच्छेदहर्यक्षतुल्या जयन्ति ॥ ३४४॥